Enter your Email Address to subscribe to our newsletters




नव-नियुक्त कर्मचारिणः पूर्ण निष्ठया सह समाजस्य अंतिमां व्यक्तिं यावद्विकास योजनानां लाभं प्राप्येत- मुख्यमंत्री
रांची, 18 मईमासः (हि.स.)।
मुख्यमन्त्रिणा हेमंत सोरेन सोमवासरे कक्षा ०१ तः ०५ पर्यन्तं १६० तथा कक्षा ०६ तः ०८ पर्यन्तं १५६ आचार्येभ्यः एवं १७ आङ्गनबाडीपर्यवेक्षिकाभ्यः नियुक्तिपत्राणि वितरितवान्। अस्मिन् अवसरे तेन उक्तं यत् एषः अवसरः केवलं नवनियुक्ताभ्यर्थिनां कृते गौरवस्य क्षणः नास्ति, अपितु राज्यस्य समग्रसमावेशिविकासस्य दिशि ऐतिहासिकमीलस्तम्भः अस्ति। राज्यसरकारः समाजस्य अन्तिमपङ्क्तौ स्थितस्य व्यक्तेः पर्यन्तं विकासयोजनानां लाभं प्रापयितुं तान् मुख्यधारया सह संयोजयितुं च पूर्णप्रतिबद्धतया कार्यं करोति। राज्यस्य विशालः भागः आदिवासीदलितपृष्ठवर्गबहुलः अस्ति, यः अनेककारणेभ्यः विकासगत्याः पश्चात् अवशिष्टः आसीत्। नवनियुक्तकर्मचारिणः ग्रामे ग्रामे गृहे गृहे गत्वा सरकारस्य प्रतिनिधिरूपेण कार्यं कुर्वन्तु। एषा केवलं नियुक्तिर्नास्ति, अपितु भवतां माध्यमेन सरकारः ग्रामे ग्रामे, गृहे गृहे, प्रत्येकव्यक्तेः समीपं च गन्तुम् इच्छति। विशेषतः महिलाः बालकाः च, येषां कृते अस्माभिः आगामिभविष्यस्य सिद्धता कर्तव्या। सीमितपरिधौ जीवनं यापयन्तः एते जनाः परिवर्तितपरिवेशानुसारम् अग्रे नेतव्याः, तेषां सशक्तिकरणं कर्तव्यं च — एषा महान् समाह्वयो भवतां स्कन्धेषु भविष्यति।
सोरेनः सोमवासरे झारखंड मंत्रालये आयोजिते नवनियुक्तइण्टर तथा स्नातकप्रशिक्षितसहायकाचार्याणां नियुक्तिपत्रवितरणसमारोहे भाषमाणः आसीत्।
नियुक्तिपत्रवितरणसमारोहस्य सभागारः उत्साहेन, उमङ्गेन तथा गौरवपूर्णवातावरणेन परिपूर्णः आसीत्। मुख्यमन्त्री नियुक्तिपत्रं प्राप्तवन्तः सर्वान् अभ्यर्थिनः अभिनन्द्य शुभकामनाः प्रदत्तवान् तथा उक्तवान् यत् एषा केवलं नौकरी नास्ति, अपितु समाजस्य राज्यस्य च विकासस्य महत्त्वपूर्णं दायित्वम् अस्ति। तेन उक्तं यत् शिक्षकाः राष्ट्रनिर्माणस्य आधारशिलाः भवन्ति, तथा महिला पर्यवेक्षिकाः समाजे महिलानां बालकानां च कल्याणसम्बद्धयोजनानां भूमिस्तरपर्यन्तं प्रापणे महत्त्वपूर्णां भूमिकां निर्वहन्ति।
मुख्यमन्त्री उक्तवान् यत् राज्यसरकारः युवभ्यः पारदर्शकरूपेण निष्पक्षरूपेण च जीविकाप्रदानाय प्रतिबद्धा अस्ति। शिक्षाव्यवस्थां सुदृढां कर्तुं, विद्यालयेषु गुणवत्तापूर्णशिक्षां सुनिश्चितां कर्तुं तथा महिला-बालविकासयोजनाः प्रभावीकरणाय निरन्तरं नियुक्तयः क्रियमाणाः सन्ति।
मुख्यमन्त्री उक्तवान् यत् यत्र देशस्य विभिन्नभागेषु प्रश्नपत्रलीकसदृशैः घटनाभिः नियुक्तयः बाधिताः भवन्ति, तत्र झारखंडसर्वकारेण गतचतुर्मासेषु शिक्षाविभागे ९००० अधिकेभ्यः युवभ्यः तथा गतद्विवर्षेषु १६,००० अधिकेभ्यः युवभ्यः जीविकाःप्रदत्ताः। पूर्वकार्यकाले तु शासकीयसंविदानिजीसंस्थासु मिलित्वा प्रायः द्विलक्षाधिकनियुक्तयः कृताः। वर्षे २०२४ वर्तमानसर्वकारस्य गठनानन्तरं मानवसंसाधनसशक्तीकरणाय विभिन्नविभागेषु निरन्तरं नियुक्तयः क्रियमाणाः सन्ति, तथा एषा प्रक्रिया अग्रेऽपि निरन्तरं प्रचलिष्यति।
मुख्यमन्त्री उक्तवान् यत् कदाचित् केचन शिक्षकाः दूरस्थग्रामीणक्षेत्रेषु गन्तुं संकोचं कुर्वन्ति। एतादृश्या विचारधारया समग्रविकासः सम्भवः नास्ति। यदि वयं स्वदायित्वं पूर्णनिष्ठया वहामः तर्ह्येव परिवर्तनं सम्भविष्यति। ‘मुख्यमन्त्री उत्कृष्टविद्यालय’ इत्यादृशी पहल अतो हि कृता, यत् वर्षानुवर्षं शिक्षाव्यवस्थायां आरोपितं कलङ्कं निवारयितुं बालकेभ्यः उत्तमभविष्यं दातुं च शक्येत।
मुख्यमन्त्री उक्तवान् यत् अर्धजनसंख्यां मुख्यधारायां समावेश्य विना राज्यस्य सर्वाङ्गीणविकासः सम्भवः नास्ति। वर्तमानकाले राज्यस्य प्रायः ६० लक्षमहिलाभ्यः झारखण्ड मुख्यमंत्री मंईयां सम्मान योजना अन्तर्गतं प्रतिमासं वित्तीयसाहाय्यं प्रदाय ताः आत्मनिर्भराः क्रियन्ते।
मुख्यमन्त्री नवनियुक्ताभ्यर्थिभ्यः उक्तवान् यत् भवद्भिः दुर्गमक्षेत्रेषु गन्तव्यं भविष्यति तथा तादृशैः बालकैः सह कार्यं कर्तव्यं भविष्यति, येषां परिस्थितयः चुनौतीपूर्णाः भविष्यन्ति। उदाहरणरूपेण तेन उक्तं यत् बालकाः भवतां हस्तेषु कच्चमृत्तिकेव भविष्यन्ति। तान् संस्कर्तुं, आकारं दातुं, तेषां भविष्यं च सुशोभितं कर्तुं सम्पूर्णं दायित्वं भवतां समीपे भविष्यति।
मुख्यमन्त्री उक्तवान् यत् राज्ये कुपोषणसदृशी समस्या तथा तस्याः निराकरणसम्बद्धाः चुनौतीपूर्णाः परिस्थितयः सन्ति। एताभ्यः समस्याभ्यः राज्यं मुक्तं कर्तुं सर्वेषां सामूहिकदायित्वम् अस्ति। यूयं सर्वे युवानः, ऊर्जया परिपूर्णाः, भवद्भ्यः समयः अवसरश्च उपलब्धः। यदि यूयं पूर्णनिष्ठया, समर्पणेन, संकल्पेन च स्वकर्तव्यपालनं करिष्यथ, तर्हि केवलं भवतां भविष्यं न उज्ज्वलं भविष्यति, अपितु भवतां परिवारः, समाजः, सम्पूर्णं झारखंडराज्यं च सुदृढं भविष्यति। या प्रसन्नता भवद्भ्यः भवतां परिवाराय च अस्याः नियुक्तेः कारणात् प्राप्ता, तादृशी प्रसन्नता सम्पूर्णझारखंडाय अपि प्राप्यताम् — इति मम कामना। भवद्भ्यः सर्वेभ्यः उज्ज्वलभविष्याय हार्दिकाः शुभकामनाः।
अस्मिन् अवसरे राज्यस्य वित्तमन्त्री राधा कृष्ण किशोर, श्रमनियोजनप्रशिक्षणविभागस्य मन्त्री संजय प्रसाद यादवः, मुख्यसचिवः अविनाशकुमारः, स्कूलीशिक्षासाक्षरताविभागस्य सचिवः उमाशङ्करसिंहः, निदेशकः प्राथमिकशिक्षा मनोजकुमाररञ्जनः सहिताः अन्ये वरिष्ठपदाधिकारी तथा बहुसंख्यकाः नवनियुक्ताभ्यर्थिनः तेषां परिजनाश्च उपस्थिताः आसन्।
---------------