Enter your Email Address to subscribe to our newsletters


तिरुवनन्तपुरम्, १८ मे-मासः (हि.स.)। केरल-राज्ये मुख्यमन्त्रिणः वी.डी.-सतीशन-महोदयस्य नेतृत्वे नवगठित-सर्वकारेण सोमवासरे स्वस्य प्रथम-मन्त्रिमण्डल-सभायां बहुषु महत्त्वपूर्णेषु जनकल्याणकारी-निर्णयेषु अनुमोदनं प्रदत्तम्। सर्वकारेण महिलानां, वरिष्ठ-नागरिकाणाम्, आशा-कार्यकर्त्रीणाम्, आङ्गनवाडी-कार्यकर्त्रीणां च कृते अनेकाः राहतकारी-योजनाः घोषिताः, येन सर्वकारस्य प्राथमिकताः स्पष्टतया प्रकाशिताः। एते निर्णयाः यूनाइटेड-डेमोक्रेटिक-फ्रण्ट् (यूडीएफ)-सङ्घटनस्य निर्वाचन-प्रतिज्ञानां शीघ्र-कार्यान्वयनस्य दिशि महत्त्वपूर्णं पदम् इति मन्यन्ते।
केरल-राज्ये सोमवासरे नूतनस्य राजनैतिक-अध्यायस्य आरम्भः अभवत्। दश-वर्षाणां अनन्तरं कांग्रेस-नेतृत्वयुक्तं यूडीएफ-सङ्घटनं पुनः राज्य-सत्तायां प्रत्यागतः। केरलस्य मुख्यमन्त्रीरूपेण शपथ-ग्रहणानन्तरं वीडी-सतीशन-महोदयस्य अध्यक्षतायां प्रथम-मन्त्रिमण्डल-सभा अभवत्। सभायाः अनन्तरं मुख्यमन्त्री सतीशनः पत्रकारैः सह वार्तालापे अवदत् यत् मन्त्रीमण्डलेन “इन्दिरा-गारण्टी”-कार्यक्रमस्य अन्तर्गतं महिलाभ्यः केरल-राज्य-मार्ग-परिवहन-निगमस्य (केएसआरटीसी) बस-यानेषु निःशुल्क-यात्रा-सुविधां प्रवर्तयितुं प्रस्तावः अनुमोदितः। सर्वकारः एतां योजनां १५ जून-मासात् आरभ्य प्रवर्तयिष्यति। अस्याः पात्रता, सञ्चालन-प्रक्रिया तथा अन्ये निर्देशाः पश्चात् विस्तरेण प्रकाशिताः भविष्यन्ति।
मुख्यमन्त्री वी.डी.-सतीशनः अवदत् यत् महिलानां आर्थिक-सहभागितायाः प्रोत्साहनार्थं तथा तासां स्वतन्त्र-गमनागमनस्य सुनिश्चितीकरणार्थम् अयं निर्णयः गृहीतः। तेन उक्तं यत् सार्वजनिक-परिवहने निःशुल्क-यात्रा-सुविधया लक्षशः महिलाभ्यः प्रत्यक्ष-आर्थिक-न्यूनता भविष्यति तथा ताः शिक्षा, रोजगारः तथा अन्येषां आवश्यक-कार्याणां कृते अधिक-सुलभतया यात्रां कर्तुं शक्नुवन्ति। सर्वकारस्य मतम् अस्ति यत् एषा योजना महिला-सशक्तीकरणस्य दिशि महत्त्वपूर्णं पदं सिद्धं भविष्यति।
मुख्यमन्त्री अवदत् यत् मन्त्रिमण्डलेन वरिष्ठ-नागरिकाणां कृते पृथक्-विशेष-विभागस्य स्थापनायाः प्रस्तावः अपि अनुमोदितः। एष: प्रयत्न: देशे स्वप्रकारस्य प्रथम: भविष्यति। एकस्य प्रश्नस्य उत्तररूपेण मुख्यमन्त्री सतीशनः अवदत् यत् राज्य-सर्वकारः वृद्धजन-कल्याणार्थम् अन्ताराष्ट्रिय-आदर्शानाम् अध्ययनं करिष्यति, विशेषतः जापान-देशस्य वृद्धजन-व्यवस्था ध्यानं दत्वा तेन उक्तं यत् कस्मिंश्चित् सभ्य-समाजस्य परिचयः अस्मिन् विषये भवति यत् सः स्व-वृद्धजनैः सह कथं व्यवहारं करोति। मुख्यमन्त्री आश्वासनं दत्तवान् यत् तेषां सर्वकारः वरिष्ठ-नागरिकाणां कृते सम्मानजनकं, सुरक्षितं समावेशात्मकं च वातावरणं निर्मातुं गम्भीरतया कार्यं करिष्यति। तेन उक्तं यत् वृद्धजनानां स्वास्थ्यं, सामाजिक-सुरक्षा तथा देखभाल-सम्बद्धेषु विषयेषु विशेष-ध्यानं प्रदास्यते।
मुख्यमन्त्री अवदत् यत् मन्त्रीमण्डलेन विभिन्न-श्रेणीभ्यः कर्मचारिभ्यः मानदेय-वृद्धेः तथा कल्याणकारी-भुगतान-वृद्धेः प्रस्तावः अपि अनुमोदितः। आशा-कार्यकर्त्रीभ्यः अतिरिक्त-त्रिसहस्र-रूप्यकाणि दातुं तथा आङ्गनवाडी-कार्यकर्त्रीणां मासिक-मानदेये एक-सहस्र-रूप्यक-वृद्धिं कर्तुं निर्णयः गृहीतः। एतदतिरिक्तं मध्याह्न-भोजन-योजनायाः अन्तर्गतं भोजन-निर्माण-कार्ये संलग्न-कर्मचारिभ्यः, तथा प्री-प्राइमरी-शिक्षकेभ्यः अपि एक-सहस्र-रूप्यक-वृद्धिः घोषिताऽस्ति। मुख्यमन्त्री अवदत् यत् राज्यस्य आर्थिक-स्थितौ सुधारः जातः चेत् सर्वकारः भविष्ये अधिक-कल्याणकारी-योजनानां विषये विचारं करिष्यति। तेन संकेतः दत्तः यत् सर्वकारः समाजस्य दुर्बल-आवश्यक-वर्गाणां कृते अन्याः योजनाः अपि प्रवर्तयितुं शक्नोति।
तेन अवदत् यत् मन्त्रीमण्डल-सभायां “नव-केरल-यात्रा” इत्यस्य काले आरक्षक-अत्याचार-आरोपाणां विशेष-निरीक्षणं कारयितुं निर्णयः अपि गृहीतः। सूचनानां निष्पक्ष-निरीक्षणस्य अनन्तरं यदि कुत्रचित् अनियमितता दृश्यते तर्हि दोषिणां विरुद्धं यथोचित-कार्यवाही भविष्यति।
मन्त्रीमण्डल-सभायां राज्य-सर्वकारेण प्रशासनिक-स्तरे अपि अनेकाः महत्त्वपूर्ण-नियुक्तयः अनुमोदिताः। वरिष्ठ-विधायकः जी.-सुधाकरणः प्रोटेम-स्पीकररूपेण नियुक्तः। जयजू-बाबू राज्यस्य एड्वोकेट-जनरलरूपेण तथा टी.-आसफ-अली अभियोजन-महानिदेशक-रूपेण नियुक्तः। एताः नियुक्तयः नूतन-सर्वकारस्य प्रशासनिक-रणनीतेः महत्त्वपूर्ण-अङ्गं मन्यन्ते।
उल्लेखनीयं यत् अस्मात् पूर्वं प्रातःकाले वी.डी.-सतीशन-महोदयेन तिरुवनन्तपुरस्य सेन्ट्रल-स्टेडियम्-स्थले आयोजिते समारोहे केरलस्य मुख्यमन्त्रीरूपेण शपथः गृहीतः। राज्यपालः राजेन्द्र-विश्वनाथ-आर्लेकरः तस्मै पदस्य गोपनीयतायाश्च शपथं दत्तवान्। तेन सह २०-सदस्यीय-मन्त्रिमण्डलेन अपि शपथः गृहीतः।
राजनीतिक-विश्लेषकाणां मतम् अस्ति यत् सर्वकारेण प्रथम-दिने एव याः जनहितकारी-योजनाः घोषिताः, ताभिः एषः स्पष्टः संकेतः लभ्यते यत् नूतन-सर्वकारः जनतायै दत्ता: प्रतिज्ञा: शीघ्रं कार्यान्विता: कृत्वा स्वस्य सक्रिय-कल्याणकारी-छविं स्थापयितुम् इच्छति॥
Hindusthan Samachar / Divya Ranjan