काङ्ग्रेस-नेता सतीशन केरलस्य मुख्यमन्त्रिपदस्य शपथं स्वीकृतवान्, प्रधानमन्त्री नरेन्द्रमोदी तस्मै शुभकामनाः प्रदत्तवान्
तिरुवनन्तपुरम्, १८ मे-मासः (हि.स.)। काङ्ग्रेस-नेतृत्वयुक्तस्य संयुक्त-लोकतान्त्रिक-मोर्चायाः (यूडीएफ) विधायक-दलस्य नेता वी.डी.सतीशन सोमवासरे मुख्यमन्त्रिपदस्य शपथं स्वीकृतवान्। सतीशन-इत्येन सह विंशतिः विधायकाः अपि मन्त्रीपदस्य शपथं स्वीकृतवन्तः। र
केरल के मुख्यमंत्री वीडी सतीशन और राज्यपाल


शपथ ग्रहण के बाद हस्ताक्षर करते वीडी सतीशन


तिरुवनन्तपुरम्, १८ मे-मासः (हि.स.)। काङ्ग्रेस-नेतृत्वयुक्तस्य संयुक्त-लोकतान्त्रिक-मोर्चायाः (यूडीएफ) विधायक-दलस्य नेता वी.डी.सतीशन सोमवासरे मुख्यमन्त्रिपदस्य शपथं स्वीकृतवान्। सतीशन-इत्येन सह विंशतिः विधायकाः अपि मन्त्रीपदस्य शपथं स्वीकृतवन्तः।

राज्यपालः राजेन्द्रविश्वनाथ-आर्लेकरः अत्र स्थिते सेन्ट्रल-स्टेडियम-प्राङ्गणे आयोजिते समारोहे काङ्ग्रेस-नेतारं सतीशनं तस्य विंशतिः मन्त्रिणश्च पद-गोपनीयतायाः शपथं प्रदत्तवान्। शपथं स्वीकृतवत्सु मन्त्रिषु काङ्ग्रेस-दलस्य एकादश विधायकाः तथा इण्डियन-यूनियन-मुस्लिम-लीग-दलस्य पञ्च विधायकाः समाविष्टाः सन्ति। एतदतिरिक्तं यूडीएफ-घटकदलेभ्यः केरल-काङ्ग्रेस-जोसेफः, क्रान्तिकारी-समाजवादी-दलम्, केरल-काङ्ग्रेस-जैकबः तथा मार्क्सवादी-कम्युनिस्ट-दलस्य एकैकः विधायकः मन्त्रीपदे नियुक्तः।

प्रधानमन्त्री नरेन्द्रमोदी सतीशनं मुख्यमन्त्रिपदस्य शपथग्रहणार्थं अभिनन्दितवान्। स्वसन्देशे प्रधानमन्त्री उक्तवान् यत् केन्द्र-सर्वकारः केरलस्य नवीन-सर्वकाराय जनाकाङ्क्षाणां पूर्त्यर्थं सर्वसम्भवं सहयोगं प्रदास्यति। तेन सतीशनस्य सफल-कार्यकालाय शुभकामनाः अपि प्रदत्ताः।

शपथग्रहण-समारोहे पूर्वमुख्यमन्त्री पिनराईविजयनः, काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खरगे, लोकसभायाः विपक्ष-नेता राहुलगांधी, काङ्ग्रेस-महासचिवा प्रियंका गांधी वाड्रा, पूर्व-विधानसभा-अध्यक्षः एएन-शमसीरः, भाजपा-प्रदेशाध्यक्षः विधायकः राजीवचंद्रशेखरश्चोपस्थिताः आसन्।

एतदतिरिक्तं सिद्धारमैया, उपमुख्यमन्त्री डीके शिवकुमारः, रेवंतरेड्डी, सुखविंदरसिंहः सुक्खू, आईयूएमएल-प्रदेशाध्यक्षः सय्यद-सादिक-अली-शिहाब-थंगलः तथा केरल-काङ्ग्रेस-नेता पीजे-जोसेफः इत्येतैः सह अनेके प्रमुख-नेतारः अपि कार्यक्रमे उपस्थिताः आसन्।

काङ्ग्रेस-दलतः ये विधायकाः मन्त्रिपदे नियुक्ताः, तेषु रमेश-चेन्निथला, सनी-जोसेफः, के-मुरलीधरन्, एपी-अनिल-कुमारः, पीसी-विष्णुनाधः, रोजी-एम-जॉनः, बिन्दु-कृष्णा, एम-लिजू, टी-सिद्दीकी, केए-तुलसी, ओजे-जनीशः च सन्ति। आईयूएमएल-दलतः पीके-कुन्हालीकुट्टी, केएम-शाजी, वी-अब्दुल-गफूरः, एन-शम्सुद्दीनः, पीके-बशीरः च शपथं स्वीकृतवन्तः। एतदतिरिक्तं मॉन्स-जोसेफः, शिबू-बेबी-जॉनः, अनूप-जैकबः तथा सीपी-जॉनः अपि मन्त्रिपदे नियुक्ताः।

सतीशन-मन्त्रिपरिषदि कुलतः चतुर्दश नवीन-मुखानां समावेशः कृतः। स्वयं सतीशनः अपि प्रथमवारं सर्वकारे किमपि पदं प्राप्तवान्। सः वर्ष २००१ तः परवूर-विधानसभा-क्षेत्रस्य प्रतिनिधित्वं करोति। मन्त्रिपरिषदि द्वे महिला-मन्त्रिण्यौ तथा अनुसूचित-जाति-समुदायस्य द्वौ सदस्यौ अपि समाविष्टौ स्तः। नवीन-दले आईयूएमएल-दलस्य एन-शम्सुद्दीनः, केएम-शाजी, पीके-बशीरः, वीई-अब्दुल-गफूरः च प्रथमवारं मन्त्रिणः अभवन्। तथैव काङ्ग्रेस-नेतारः पीसी-विष्णुनाधः, रोजी-एम-जॉनः, बिन्दु-कृष्णा, टी-सिद्दीकी, केए-तुलसी तथा ओजे-जनीशः अपि प्रथमवारं मन्त्रिपरिषदि स्थानं प्राप्तवन्तः।

शपथग्रहण-समारोहस्य समये सेन्ट्रल-स्टेडियम-प्राङ्गणं जनैः पूर्णम् आसीत्। यदा मन्त्रिणः एकैकशः शपथं स्वीकृतवन्तः, तदा सम्पूर्णः परिसरः घोषैः करतल-ध्वनिभिश्च गुञ्जितः अभवत्। राज्यस्य विभिन्न-भागेभ्यः काङ्ग्रेस-यूडीएफ-समर्थकानां आगमनेन अयं समारोहः विशाल-राजनीतिक-शक्ति-प्रदर्शनरूपे परिवर्तितः।

उल्लेखनीयम् अस्ति यत् केरलस्य १४०-सदस्यीय-विधानसभायाः निर्वाचनार्थं मतदानं नव-एप्रिल-दिने अभवत्, परिणामाः च चतुर्थ-मे-मासे घोषिताः। अस्मिन् निर्वाचने यूडीएफ-दलेन उत्कृष्ट-प्रदर्शनं कृत्वा १०२-स्थानानि विजितानि। वाम-लोकतान्त्रिक-मोर्चायै ३५-स्थानानि प्राप्तानि, भाजपा-दलेन च त्रीणि स्थानानि विजितानि। यूडीएफ-दलस्य अस्य निर्णायक-विजयेन राज्ये दशवर्षानन्तरं सत्तापरिवर्तनम् अभवत्। अधुना नवीन-सर्वकारस्य सम्मुखे राज्यस्य आर्थिक-स्थितिः, रोजगार-विस्तारः, आधारभूत-संरचनानिर्माणम्, सामाजिक-कल्याणसम्बद्धाः विषयाः च प्रमुख-स्पर्धारूपेण सन्ति।

Hindusthan Samachar / Divya Ranjan