अमित-शाहेन छत्तीसगढ-प्रदेशे अत्याधुनिकतायाः ‘नेक्स्ट-जेन-सीजी-डायल-११२-सेवा’-इत्यस्याः तथा मोबाइल-फॉरेंसिक-वैन-इत्यस्य शुभारम्भः कृतः
रायपुर-नगरम्, १८ मईमासः (हि.स.)। केन्द्रीय-गृहमन्त्रिणा अमित-शाहेन सोमवासरे रायपुर-नगरे माना-आरक्षक-संचलन-प्रांगणे छत्तीसगढ-आरक्षकस्य अत्याधुनिकतायाः ‘नेक्स्ट-जेन-सीजी-डायल-११२-सेवा’-इत्यस्याः तथा मोबाइल-फॉरेंसिक-वैन-इत्यस्य शुभारम्भः कृतः। केन्द्
केंद्रीय गृह मंत्री अमित शाह


केंद्रीय गृह मंत्री अमित शाह


केंद्रीय गृह मंत्री अमित शाह


केंद्रीय गृह मंत्री अमित शाह


रायपुर-नगरम्, १८ मईमासः (हि.स.)। केन्द्रीय-गृहमन्त्रिणा अमित-शाहेन सोमवासरे रायपुर-नगरे माना-आरक्षक-संचलन-प्रांगणे छत्तीसगढ-आरक्षकस्य अत्याधुनिकतायाः ‘नेक्स्ट-जेन-सीजी-डायल-११२-सेवा’-इत्यस्याः तथा मोबाइल-फॉरेंसिक-वैन-इत्यस्य शुभारम्भः कृतः।

केन्द्रीय-गृहमन्त्रिणा शाहेन ४०० अत्याधुनिक-डायल-११२-वाहनानि तथा ३२ दूरभाष-फॉरेंसिक-वैन-यानानि हरित-ध्वजं प्रदर्श्य प्रेषितानि। अस्मिन् अवसरे मुख्यमन्त्री विष्णुदेव-सायः, विधानसभा-अध्यक्षः रमन-सिंहः, उपमुख्यमन्त्री तथा गृहमन्त्री विजय-शर्मा, आरक्षक-महानिदेशकः अरुण-देव-गौतमः, विधायकगणाः, जनप्रतिनिधयः तथा वरिष्ठ-पुलिस-अधिकारीणः उपस्थिताः आसन्।

‘एक्के-नम्बर, सब्बो-बर’ इति विषयाधारितेयं आधुनिक-सेवा आरक्षक-अग्निशमन-चिकित्सा-सेवानां एकीकरणं कृत्वा नागरिकेभ्यः एकस्मिन् एव सङ्ख्याङ्के त्वरिताम् आपत्कालीन-सहायतां प्रदास्यति। अस्याः अन्तर्गतं प्रारब्धेषु ४०० अत्याधुनिक-वाहनेषु स्मार्टफोन-जीपीएस-वायरलेस-रेडियो-पीटीजेड-कैमरा-डैश-कैमरा-दूरभाष-एनवीआर-सौर-ऊर्जा-समर्थनादयः आधुनिक-सुविधाः सन्ति। एतासां प्रौद्योगिकीनां साहाय्येन घटनास्थलस्य प्रत्यक्ष-निरीक्षणं, वास्तविक-समय-ट्रैकिंग तथा त्वरित-सञ्चारः सुनिश्चितः भविष्यति।

इयं सेवा चतुर्विंशतिघण्टात्मक-रूपेण निरन्तरं सञ्चालिता भविष्यति। अस्याम् जीआईएस-आधारित-निरीक्षणं, उन्नत-वाहन-ट्रैकिंग, एसआईपी-ट्रंक-प्रौद्योगिकी तथा स्वचालित-कॉलर-स्थान-परिचयादीनां आधुनिक-प्रौद्योगिकीनां उपयोगः कृतः अस्ति। राज्यस्य सर्वे ३३ जनपद-समन्वय-केन्द्राणि अपि अस्मिन् जाले संयुक्तानि सन्ति। नागरिकाः वॉयस-कॉल-एसएमएस-ईमेल-वेब-पोर्टल-व्हाट्सएप-चैटबॉट-एसओएस-११२-इण्डिया-एप्-माध्यमेन अपि सहायतां प्राप्तुं शक्नुवन्ति।

मोबाइल-फॉरेंसिक-वैन-माध्यमेन घटनास्थले एव वैज्ञानिक-निरीक्षणं भविष्यति

३२ मोबाइल-फॉरेंसिक-वैन-यानानि प्रदेशे अपराध-अनुसन्धानाय नूतनां दिशां प्रदास्यन्ति। “३२ वैन–३२ जनपदाः–एकः सङ्कल्पः : सूक्ष्म-जांचः, त्वरित-न्यायः” इति उद्देश्येन प्रारब्धेयं योजना घटनास्थले एव प्रारम्भिक-वैज्ञानिक-निरीक्षणस्य सुविधां प्रदास्यति।

प्रत्येकम् एककस्य प्रायः ६५ लक्ष-रूप्यक-व्यययुक्तेषु एतेषु अत्याधुनिक-वैन-यानेषु घटनास्थल-संरक्षण-किट्, साक्ष्य-संग्रहण-मुद्रण-उपकरणानि, फिङ्गरप्रिण्ट-डिटेक्शन-प्रणाली, नार्कोटिक्स-परीक्षण-किट्, डिजिटल-फॉरेंसिक-सपोर्ट्, उच्च-गुणवत्ता-छायाचित्रण-व्यवस्था, बुलेट-होल-स्क्रीनिंग-बैलिस्टिक-निरीक्षण-किट् तथा गनशॉट-रेजिड्यू-परीक्षण-किट् इत्यादयः उन्नत-सुविधाः उपलब्धाः सन्ति।

नूतन-मोबाइल-फॉरेंसिक-वैन-माध्यमेन घटनास्थले एव प्रारम्भिक-निरीक्षणं, साक्ष्य-संरक्षणम्, परीक्षणं तथा डिजिटल-तथ्यसंग्रहणकरणं कर्तुं शक्यते। अनेन निरीक्षणस्य गुणवत्ता तथा गतिः उभयत्र महत्त्वपूर्णः सुधारः भविष्यति।

Hindusthan Samachar / Divya Ranjan