योगी-मन्त्रिमण्डलेन द्वादश महत्त्वपूर्ण-प्रस्तावाः अनुमोदिताः, प्रदेशाय २४०० मेगावाट-क्षमतायाः नूतना तापीय-परियोजना
लखनऊ-नगरम्, १८ मईमासः (हि.स.)। उत्तर-प्रदेशे जनतायै सुलभ-मूल्येन विद्युत्-प्रदानेन उद्देश्येन योगी-मन्त्रिमण्डलेन ३x८०० मेगावाट-क्षमतायाः नूतना तापीय-ऊर्जा-परियोजनया सह १२ महत्त्वपूर्ण-प्रस्तावाः अनुमोदिताः। राज्यस्य अस्याः २४०० मेगावाट-क्षमतायाः म
मंत्री एके शर्मा


लखनऊ-नगरम्, १८ मईमासः (हि.स.)। उत्तर-प्रदेशे जनतायै सुलभ-मूल्येन विद्युत्-प्रदानेन उद्देश्येन योगी-मन्त्रिमण्डलेन ३x८०० मेगावाट-क्षमतायाः नूतना तापीय-ऊर्जा-परियोजनया सह १२ महत्त्वपूर्ण-प्रस्तावाः अनुमोदिताः। राज्यस्य अस्याः २४०० मेगावाट-क्षमतायाः महत्त्वाकाङ्क्षिण्याः परियोजनायाः उपरि प्रायः ३८,३५८ कोटि-रूप्यकाणां व्ययः भविष्यति। एषा परियोजना प्रदेश-सर्वकारस्य एनटीपीसी-संस्थायाश्च संयुक्त-उपक्रमेण स्थापिता सञ्चालिता च भविष्यति।

सोमवासरे मुख्यमन्त्रिणः योगी-आदित्यनाथस्य अध्यक्षतायां सम्पन्नायां मन्त्रिमण्डल-सभायां १२ महत्त्वपूर्ण-प्रस्तावेषु अनुमोदनं दत्तम्। एतेषु पञ्चायत-निर्वाचने ओबीसी-आरक्षण-निर्धारणाय नूतन-आयोगस्य गठनम्, समर्पित-पृष्ठ-वर्ग-आयोगस्य स्थापनम्, लखनऊ-मेट्रो-विस्तारस्य अन्तर्गतं चारबाग-बसन्तकुञ्ज-मेट्रो-गलियारा-इत्यस्य अनुमोदनं च समाविष्टम्।

मन्त्रिमण्डल-सभायां नूतन-तापीय-ऊर्जा-परियोजनायाः विषये नगर-विकास-ऊर्जा-मन्त्री ए.के.-शर्मा उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्र-मोदिनः प्रेरणया मुख्यमन्त्रिणः योगी-आदित्यनाथस्य नेतृत्वे च उत्तर-प्रदेशः ऊर्जा-आत्मनिर्भरतायाः दिशि शीघ्रतया अग्रे गच्छति। तेन उक्तं यत् गत-चतुर्षु वर्षेषु प्रदेशे प्रायः ४००० मेगावाट-परिमिता नूतना तापीय-ऊर्जा-क्षमता योजिता, येन प्रदेशस्य तापीय-ऊर्जा-क्षमता प्रायः द्विगुणिता अभवत्। अधुना सर्वकारः तां त्रिगुणितां कर्तुं लक्ष्यं निर्धारितवान्। एषा नूतना परियोजना तस्यैव सङ्कल्पस्य महत्त्वपूर्णः भागः अस्ति।

ऊर्जा-मन्त्री शर्मा उक्तवान् यत् प्रदेश-सर्वकारेण वर्षे २०२३ तमे ग्लोबल-इन्वेस्टर्स-समिट-अवसरे एनटीपीसी-संस्थया सह अस्याः परियोजनायाः कृते सन्धि: कृता आसीत्। तेन उक्तं यत् अद्य मन्त्रिपरिषदा अस्याः परियोजनायाः अनुमोदनं दत्त्वा सर्वकारस्य सङ्कल्पः भूमौ अवतरितुं महत्त्वपूर्णं पदं स्थापितम्। तेन उक्तं यत् अस्याः परियोजनायाः आरम्भेण प्रदेशे उद्योगिनः, कृषकाः, व्यापारीणः सामान्य-नागरिकाश्च सुलभां पर्याप्तां निर्बाधां च विद्युत् प्राप्स्यन्ति। सहैव रोजगारस्य नूतनाः अवसराः अपि सृज्यन्ते तथा प्रदेशस्य आर्थिक-गतिविधयः नूतनां गतिं प्राप्स्यन्ति।

शर्मा उक्तवान् यत् उत्तर-प्रदेशः अधुना केवलं जनसङ्ख्यायाः आधारेण एव न, अपितु ऊर्जा-क्षमता-औद्योगिक-विकासयोः क्षेत्रयोः अपि देशस्य अग्रणी-राज्यं भवति। सर्वकारस्य लक्ष्यं यत् प्रदेशस्य प्रत्येकं गृहम्, प्रत्येकं ग्रामं, प्रत्येकं उद्योगं च गुणवत्तायुक्तया विद्युत्-माध्यमेन संयोज्यताम्।

Hindusthan Samachar / Divya Ranjan