ओडिशा-प्रदेशस्य प्रवासाय नीतिन-नवीनः, कार्यकारिणी-समिति-सभायां सङ्घटनात्मक-विषयेषु चर्चा
भुवनेश्वर-नगरम्, १८ मईमासः (हि.स.)। ओडिशा-प्रदेशस्य प्रवासाय आगतवान् भारतीय-जनता-पक्षस्य राष्ट्रियाध्यक्षः नितिन-नवीनः सोमवासरस्य प्रातःकाले भुवनेश्वर-नगरे स्थिते भारतीय-जनता-पक्षस्य राज्य-कार्यालये आयोजितायां दलस्य राज्य-कोर-समिति-सभायां सहभागं कृ
ओडिशा भाजपा कोर कमेटी की बैठक


भुवनेश्वर-नगरम्, १८ मईमासः (हि.स.)। ओडिशा-प्रदेशस्य प्रवासाय आगतवान् भारतीय-जनता-पक्षस्य राष्ट्रियाध्यक्षः नितिन-नवीनः सोमवासरस्य प्रातःकाले भुवनेश्वर-नगरे स्थिते भारतीय-जनता-पक्षस्य राज्य-कार्यालये आयोजितायां दलस्य राज्य-कोर-समिति-सभायां सहभागं कृतवान्। सभायां मुख्यमन्त्री मोहन-चरण-माझी इत्येतै: सह दलस्य अनेके वरिष्ठ-नेतारः उपस्थिताः आसन्।

दलस्य सूत्रानुसारं सभायां सङ्गठनात्मक-गतिविधीनां, राज्यस्य आर्थिक-विकासस्य तथा विविध-राजनीतिक-प्रशासनिक-विषयाणां विषये विस्तृता चर्चा कृता।

सभायां केन्द्रीय-मन्त्री धर्मेन्द्र-प्रधानः, जुएल-ओरामः, भारतीय-जनता-पक्षस्य प्रदेशाध्यक्षः सांसदः मनमोहन-सामलः, भारतीय-जनता-पक्षस्य ओडिशा-प्रभारी विजय-पाल-सिंह-तोमरः, सह-प्रभारी लता-उसेण्डी, उपमुख्यमन्त्री कनक-वर्धन-सिंहदेवः तथा उपमुख्यमन्त्री प्रभाती-परिडा अपि उपस्थिताः आसन्।

एतेभ्यः अतिरिक्तं भारतीय-जनता-पक्षस्य प्रदेश-सङ्गठन-महासचिवः मानस-महान्तिः, सांसदः प्रताप-षडंगी, डॉ.सम्बित-पात्रः तथा अन्ये वरिष्ठ-नेतारः अपि सभायां सम्मिलिताः अभवन्।

सभायाः अनन्तरं मुख्यमन्त्री मोहन-चरण-माझी सामाजिक-माध्यमेषु उक्तवान् यत् भारतीय-जनता-पक्षस्य राष्ट्रियाध्यक्षस्य नितिन-नवीनस्य उपस्थितौ आयोजितायां राज्य-कार्यकारिणी-समिति-सभायां वरिष्ठ-नेतृभिः सह सङ्घटनात्मक-कार्याणां विषये सार्थका चर्चा अभवत्।

मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्र-मोदिनः दूरदर्शि-नेतृत्वे राज्यस्य डबल-इञ्जिन-सर्वकारः ओडिशा-प्रदेशस्य सर्वाङ्गीण-विकासाय, सामाजिक-सुरक्षायै तथा आर्थिक-प्रगत्यै नूतनां दिशां दातुं प्रतिबद्धः अस्ति। तेन उक्तं यत् राज्यस्य प्रत्येकं नागरिकस्य कल्याणाय ओडिशा-प्रदेशस्य गौरवशालिनीं परिचयं च वैश्विक-स्तरे प्रतिष्ठापयितुं सर्वकारः निरन्तरं कार्यं करोति।

Hindusthan Samachar / Divya Ranjan