‘ओम्-शान्ति-आलाप-संगीत-अकादम्या’ ‘सिङ्ग-एण्ड-विन’ कार्यक्रमस्य आयोजनं कृतम्
नव-दिल्ली-नगरम्, १८ मे-मासः (हि.स.)। ‘ओम्-शान्ति-आलाप-संगीत-अकादम्या’ एकस्य कार्यक्रमस्य आयोजनं कृतम्। त्रिहोराधिक-कालपर्यन्तं सञ्चालिते अस्मिन् कार्यक्रमे यमुनापार-क्षेत्रस्य पञ्चाशदधिकाः बालकाः, युवकाः युवत्यश्च रविवासरे सायंकाले ईस्ट-एण्ड-क्लब-स
‘ओम शांति अलाप संगीत अकादमी’ में


नव-दिल्ली-नगरम्, १८ मे-मासः (हि.स.)। ‘ओम्-शान्ति-आलाप-संगीत-अकादम्या’ एकस्य कार्यक्रमस्य आयोजनं कृतम्। त्रिहोराधिक-कालपर्यन्तं सञ्चालिते अस्मिन् कार्यक्रमे यमुनापार-क्षेत्रस्य पञ्चाशदधिकाः बालकाः, युवकाः युवत्यश्च रविवासरे सायंकाले ईस्ट-एण्ड-क्लब-स्थले मुम्बई-चलच्चित्र-गीताधारितायां ‘सिङ्ग-एण्ड-विन’ प्रतिस्पर्धायां सहभागित्वं कृतवन्तः।

अस्मिन् षड्वर्षीयः हसन-अली-खानः तस्य ज्येष्ठा भगिनी आयशा च स्वीयैः भावै: मधुर-स्वरेण च “ना तो कारवाँ की तलाश है, ना तो हमसफ़र” इति विशेष-प्रस्तुत्यां पुरस्कारम् अलभेताम्। एताभ्यां अतिरिक्तं षट् बाल-कलाकाराः युवक-युवत्यश्च द्वयोः वर्गयोः पुरस्कारान् प्राप्तवन्तः।

बाल-कलाकाराणां वर्गे बालिकाभिः विजयः प्राप्तः। कनिष्ठ-वर्गे मिशिता-सूदः, मानवी-दत्तः तथा सिमोना-सिंहः प्रथम-त्रय-विजेतारः अभवन्, वरिष्ठ-वर्गे च प्रतीक-सराफः, तानिश-शर्मा तथा रीवा-स्वात्यौ प्रथम-त्रय-विजेतारौ अभवताम्।

क्लब-अध्यक्षस्य ललित-मोहन-बंसलस्य पक्षतः कार्यक्रम-सञ्चालिकायै नीलम-शर्मणे “सर्वश्रेष्ठ-अवार्ड्” प्रदत्तः। नगर-निगमस्य स्थायी-समितेः अध्यक्षा सत्य-शर्मा तथा ‘संस्कार-भारती’-संस्थायाः क्षेत्रीय-प्रचारकः विजयः पुरस्कारान् वितरितवन्तौ।

‘ओम्-शान्ति-आलाप-संगीत-अकादम्या’ आयोजिते अस्मिन् त्रिहोराधिक-कार्यक्रमे किराना-घरानस्य गजल-उस्तादः फरीद-अहमद-खानः गुलाम-अली-महोदयस्य प्रसिद्धं गजलम् “हम तेरे शहर में आए हैं” प्रस्तुतवान्। उस्ताद-अकरम-खानः विजयश्च अवदताम् यत् सङ्गीत-क्षेत्रे दैनिक-अभ्यास: साधना च अत्यावश्यकौ स्तः। एयरफोर्स-बाल-भारती-विद्यालयस्य अध्यापिका मानसी-हाण्डा कार्यक्रमस्य सञ्चालनम् अकरोत्। अकादम्याः निदेशिका नीलम-शर्मा अवदत् यत् अग्रिम-मासेषु कथक-नृत्यस्य तथा सङ्गीत-वाद्य-प्रतिस्पर्धायाः आयोजनं भविष्यति।

अस्मिन् अवसरे निर्णायक-मण्डले शास्त्रीय-सङ्गीत-उस्तादः अमजद-अली-खानः, अजराड़ा-घरानस्य तबला-वादकः उस्ताद-अकरम-खानः तथा काश्मीरी-सन्तूर-वादकः पण्डित-दिशारी-चक्रबर्ती उपस्थिताः आसन्। पत्रकारेषु दिलबर-गोठी, कमलजीत्-सिंहः, क्लब-पदाधिकारेषु कपिल-त्यागी, मनीष-ओझा, प्रवीण-वाधवा, जी.के.-बंसलः, सूचित-सिङ्गलः इत्येतै: सह क्षेत्रस्य गणमान्यातिथयः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan