भट्टारमहाविद्यालये प्राणिशास्त्रपोषणशास्त्रयोः अध्ययनम् आरब्धम्, ओलचिकी-लिपेः अपि स्थानं प्रदत्तम्
पश्चिममेदिनीपुरम्, १८ मे-मासः (हि.स.)। जनदपस्य दान्तन-स्थिते भट्टार-महाविद्यालये नूतन-शैक्षणिक-सत्रात् द्वौ नूतनौ विभागौ आरभ्येते। महाविद्यालय-प्रशासनेन प्राणिशास्त्र-पोषणशास्त्रयोः विषये स्नातक-स्तरे अध्ययनस्य आरम्भं कर्तुं निर्णयः कृतः। एतेन सह स
भद्र हेंब्रम कॉलेज में


पश्चिममेदिनीपुरम्, १८ मे-मासः (हि.स.)। जनदपस्य दान्तन-स्थिते भट्टार-महाविद्यालये नूतन-शैक्षणिक-सत्रात् द्वौ नूतनौ विभागौ आरभ्येते। महाविद्यालय-प्रशासनेन प्राणिशास्त्र-पोषणशास्त्रयोः विषये स्नातक-स्तरे अध्ययनस्य आरम्भं कर्तुं निर्णयः कृतः। एतेन सह सान्ताली-भाषायाः ओलचिकी-लिप्याम् अपि पास-कोर्स-अध्ययनम् आरभ्यते।

महाविद्यालयस्य प्राचार्यः गिरिधारी-पण्डा उक्तवान् यत् क्षेत्रस्य विद्यार्थिनां याचनुसारम् एतौ विषयौ आरभ्येते। अधुना एतयोः विभागयोः ३०-३० आसन्दाः निर्धारिताः सन्ति। अग्रे गत्वा विद्यार्थिनां संख्या-रुच्योः आधारेण एतेषु विषयेषु स्नातकोत्तर-पाठ्यक्रमस्य आरम्भस्य विषयेऽपि विचारः करिष्यते।

उल्लेखनीयम् अस्ति यत् १९६३ तमे वर्षे स्थापितम् एतत् महाविद्यालयं विद्यासागर-विश्वविद्यालयेन सम्बद्धम् अस्ति तथा गतवर्षे अस्मै स्वायत्त-अनुमतिः प्रदत्ता। अपरत्र क्षेत्रे बहुसंख्यया आदिवासी-समुदायस्य जनाः निवसन्ति, अतः सान्ताली-भाषायाः ओलचिकी-लिप्याम् अध्ययनस्य आरम्भार्थं याचना उत्थापिता आसीत्। केशियाड़ी-क्षेत्रस्य विधायकः भद्र-हेम्ब्रमः महाविद्यालय-प्रशासनं प्रति स्नातक-स्तरे ओलचिकी-लिप्याम् अध्ययनस्य आरम्भार्थम् अनुरोधं कृतवान्। तस्य कथनम् अस्ति यत् यदि उच्च-शिक्षायाम् अपि मातृभाषायाम् अध्ययनस्य सुविधा भविष्यति तर्हि आदिवासी-विद्यार्थिनां उत्साहः अधिकं वर्धिष्यते।

रविवासरस्य सायंकाले महाविद्यालय-प्रशासनेन उक्तं यत् अधुना ओलचिकी-लिप्याम् पास-कोर्सः एव आरभ्यते। भविष्ये विद्यार्थिनां रुचिं दृष्ट्वा अस्मिन् ऑनर्स-पाठ्यक्रमस्य आरम्भस्य निर्णयः अपि कर्तुं शक्यते।

अपरत्र मेदिनीपुर-स्थिते राजा-नरेन्द्र-लाल-खान-महिला-महाविद्यालयेऽपि अस्मिन् वर्षे नूतनः विभागः उद्घाट्यते। अत्र रिमोट्-सेन्सिङ्ग्-जीआईएस (जियोस्पेशियल-तन्त्रज्ञानम्) इत्यस्य विषयस्य अध्ययनम् आरभ्यते। अस्मिन् विषये विज्ञान-कला-वाणिज्य-संकायेषु कस्यापि संकायस्य विद्यार्थिनः प्रवेशं प्राप्तुं शक्नुवन्ति।

महाविद्यालयस्य भूगोल-विभागस्य प्राध्यापकः प्रभात-कुमार-शीतः उक्तवान् यत् अस्मिन् क्षेत्रे रोजगारस्य सम्भावनाः शीघ्रं वर्धन्ते, अतः स्नातक-स्तरे एषः पाठ्यक्रमः आरभ्यते।

Hindusthan Samachar / Divya Ranjan