प्रधानमन्त्री नरेन्द्र-मोदी स्वीडन-देशस्य यात्रां सम्पन्न्य नॉर्वे-देशाय प्रस्थितः, भारत-नॉर्डिक-शिखर-सम्मेलने सहभागं करिष्यति
गोथेनबर्ग-नगरम् (स्वीडन-देशः), १८ मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी स्वस्य षड्दिवसीय-पञ्चदेशीय-विदेश-यात्रायाः चतुर्थे दिने स्वीडन-देशात् नॉर्वे-देशाय प्रस्थितवान्। सः स्वीडन-देशस्य गोथेनबर्ग-नगरात् नॉर्वे-देशस्य ओस्लो-नगराय प्रस्थानं कृतव
स्वीडन से ओस्लो के लिए रवाना होते प्रधानमंत्री नरेन्द्र मोदी।


गोथेनबर्ग-नगरम् (स्वीडन-देशः), १८ मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी स्वस्य षड्दिवसीय-पञ्चदेशीय-विदेश-यात्रायाः चतुर्थे दिने स्वीडन-देशात् नॉर्वे-देशाय प्रस्थितवान्। सः स्वीडन-देशस्य गोथेनबर्ग-नगरात् नॉर्वे-देशस्य ओस्लो-नगराय प्रस्थानं कृतवान्। नॉर्वे-देशं प्राप्य सः १९ मईमासे आयोज्यमाने तृतीये भारत-नॉर्डिक-शिखर-सम्मेलने सहभागं करिष्यति।

प्रधानमन्त्री मोदी नॉर्वे-देशस्य राजधान्यां ओस्लो-नगरे नॉर्वे-देशस्य प्रधानमन्त्री जोनास-गहर-स्टोरे इत्यनेन सह द्विपक्षीय-वार्तां करिष्यति। अस्यां यात्रायां भारत-नॉर्वे-देशयोः मध्ये ऊर्जा-प्रौद्योगिकी-हरित-विकास-आर्कटिक-सहयोगादि-विषयेषु चर्चायाः सम्भावना वर्तते।

मोदी एतस्मात् पूर्वं संयुक्त-अरब-अमीरात-देशं, नीदरलैंड-देशं तथा स्वीडन-देशं च यात्रां सम्पन्नवान्। १५ मईमासत: १७ मईमासपर्यन्तं सः नीदरलैंड-देशे स्थितवान्, ततः परं १७ मईमासत: १८ मईमासपर्यन्तं स्वीडन-देशे विविध-कार्यक्रमेषु सहभागं कृतवान्। प्रधानमन्त्रिणः एषा यात्रा भारत-यूरोपयोः मध्ये रणनैतिकसहभागिताम् अधिकां सुदृढीकर्तुं महत्त्वपूर्णा मन्यते।

Hindusthan Samachar / Divya Ranjan