Enter your Email Address to subscribe to our newsletters

गोथेनबर्गः, 18 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी स्वीडनदेशे आयोजितस्य यूरोपियन-राउण्ड-टेबल-फॉर-इण्डस्ट्री-कार्यक्रमस्य समये भारतस्य स्वीडनदेशस्य च मध्ये सम्बन्धान् नवां दिशां दातुम् उक्तवान्। तेन उक्तं यत् भारतस्य यूरोपस्य च मध्ये राजनीतिक-आर्थिक-रणनीतिक-अभिसरणं समस्ते विश्वे शान्तेः स्थिरतायाश्च कृते महत्त्वपूर्णम् अस्ति।
प्रधानमन्त्री मोदी स्वस्य सम्बोधने अवदत् यत् भारतस्य स्वीडनदेशस्य च सम्बन्धाः लोकतान्त्रिक-मूल्यानां, विधि-शासनस्य, मानव-केन्द्रित-विकासस्य च आधारे सन्ति। तेन उक्तं यत् उभौ देशौ नवान्वेषणम्, सतत-विकासः, लोकतन्त्रञ्च स्वीयां सहभागिता-शक्तिं मन्येते।
कार्यक्रमे स्वीडनदेशस्य प्रधानमन्त्री उल्फ-क्रिस्टर्सनः यूरोपीय-आयोगस्य अध्यक्षा उर्सुला-वॉन-डेर-लेयेनश्च उपस्थिते आस्ताम्। प्रधानमन्त्री मोदी अवदत् यत् उभयोः देशयोः मध्ये पर्ययावरण-परिवर्तनं, रक्षा, उभूत-प्रौद्योगिकयः, जनानाञ्च मध्ये सम्बन्धाः सहयोगस्य प्रमुखैः स्तम्भैः रूपेण विकसयिष्यन्ते।
तेन आर्टिफिशियल-इण्टेलिजेन्स्, हेल्थ-टेक्, ग्रीन-मोबिलिटी-सदृशेषु क्षेत्रेषु व्यापकानां सम्भावनानाम् उल्लेखः कृतः। प्रधानमन्त्री अवदत् यत् भारतः स्वीडनश्च मिलित्वा स्वीडन-इण्डिया-टेक्नोलॉजी-एण्ड-एआई-कॉरिडोर इति सुदृढं कर्तुं दृढ़ान् पदक्षेपान् ग्रहीष्यतः। तेन सह स्टार्टअप-अनुसन्धान-क्षेत्रयोः सहयोगं वर्धयितुं भारत-स्वीडन-विज्ञान-प्रौद्योगिकी-केन्द्रस्य स्थापनायाः योजनायामपि कार्यं क्रियते।
जलवायु-परिवर्तनस्य सतत-विकासस्य च विषये अपि प्रधानमन्त्रिणा उभयोः देशयोः विचारयोः साम्ये बलं दत्तम्। तेन उक्तं यत् भारते ग्रीन-हाइड्रोजन इत्यस्य, सर्कुलर-इकोनॉमी इत्यस्याः, दृढ़-आधारभूत-संरचनायाश्च वृहत्-स्तरे कार्यं प्रचलति, यत्र स्वीडनदेशस्य प्रौद्योगिकी भारतस्य सामर्थ्यञ्च मिलित्वा वैश्विकान् समाधानान् निर्मातुं शक्नुतः।
रक्षा-सहयोगे प्रधानमन्त्री अवदत् यत् स्वीडिश-संस्थानां भारते उत्पादन-सुविधानां स्थापनम् एतस्य संकेतः अस्ति यत् उभौ देशौ अधुना केवलं क्रेता-विक्रेता-सम्बन्धाः अतिक्रम्य दीर्घकालिक-औद्योगिक-सहभागितायाः दिशि अग्रसरौ भवतः।
प्रधानमन्त्री एतदपि अवदत् यत् वर्तमानेषु वैश्विक-परिस्थितिषु लोकतान्त्रिक-देशानां मध्ये सहयोगस्य महत्त्वम् अधिकतरं वर्धितम् अस्ति, भारतश्च सर्वदा संवादस्य कूटनीतेश्च माध्यमेन समस्यानां समाधानस्य समर्थनं करोति।
----------------------
Hindusthan Samachar / अंशु गुप्ता