Enter your Email Address to subscribe to our newsletters

उज्जैनम् , 18 मईमासः (हि.स.)।
मध्यप्रदेशस्य उज्जैनजनपदे सिंहस्थमहापर्व २०२८ इत्यस्य सज्जतासम्बन्धेन प्रशासनिकाधिकारिणः नियमितनिरीक्षणस्य अन्तर्गतं सोमवासरे नगरनिगमस्य माध्यमेन क्रियमाणानां मार्गविस्तारीकरणकार्याणां निरीक्षणं कृतवन्तः। अस्मिन् अवसरे संभागायुक्तः आशीषसिंहः मार्गविस्तारीकरणकार्यस्य मन्दगतिं दृष्ट्वा निर्माणकार्यं कुर्वत्यै संस्थायै चेतावनीं दत्त्वा निगमायुक्तम् अभिलाषमिश्रं तां संस्था ब्लेकलिस्टेड् कर्तुं निर्देशितवान्।
संभागायुक्तः सिंहः उक्तवान् यत् अस्माकं प्राथमिकता अस्ति यत् वर्षर्तोः प्रारम्भात् पूर्वं मार्गविस्तारीकरणकार्येषु आवश्यकनिर्माणकार्याणि तीव्रगत्या सम्पन्नानि भवेयुः। सोमवासरे नियमितनिरीक्षणस्य समये संभागायुक्तः आशीषसिंहः कलेक्टर् रौशनकुमारसिंहः नगरनिगमायुक्तः अभिलाषमिश्रः च प्रातः पदयात्रां कृत्वा निर्माणकार्याणां वास्तविकतां परीक्षितवन्तः। निरीक्षणस्य समये ढांचाभवनम् एमआर ४ दारूगोदाममार्गविस्तारीकरणकार्यं नानाखेडाचतुष्पथतः शान्तिपैलेस् पर्यन्तं सीसीरोडनिर्माणकार्यं केटीएम् शोरूमतः शान्तिनगरमार्गेण नीलगंगाचतुःपथपर्यन्तं मार्गविस्तारीकरणकार्यं च निरीक्षितम्।
संभागायुक्तः सिंहः शान्तिनगरक्षेत्रे कार्यस्य मन्दगतिं दृष्ट्वा निर्माणसंस्थायां अप्रसन्नतां प्रकट्य नगरनिगमायुक्तं मिश्रं सम्बद्धसंस्थायाः विरुद्धं कार्यवाहीं कर्तुं निर्देशितवान्। संभागायुक्तः सिंहः उक्तवान् यत् सिंहस्थार्थं प्रचलितकार्याणां समयसीमायां सम्पन्नतार्थं आवश्यकं यत् निर्माणकार्यं कुर्वन्तः विभागीयाधिकारिणः अपि स्थले उपस्थिताः सन्तः कार्यस्य प्रगतिविषये सूचनां गृह्णीयुः।
त्रिषु पालिषु कार्यं कर्तुं निर्माणसंस्थायै निर्देशाः
संभागायुक्तः सिंहः उक्तवान् यत् आगामिमासात् वर्षर्तुः प्रारम्भः भविष्यति। तस्मात् पूर्वं आवश्यककार्याणां सम्पन्नता अनिवार्या अस्ति। एतदर्थं निर्माणसंस्थायै त्रिषु पालिषु कार्यारम्भस्य निर्देशाः ददतु तथा निरीक्षणाधिकारिणः अपि क्षेत्रेषु निरन्तरं पश्यन्तु यत् कार्यस्य गतिः न्यूनां न भवेत्। येन वर्षाकाले कार्यं प्रभावितं न भवेत् तथा जनानां कष्टमपि न स्यात्।
अस्मिन् अवसरे जनपदाधिकारी रौशनकुमारसिंहः स्थले उपस्थितायै निर्माणसंस्थायै प्रचलितनिर्माणकार्यस्य समये सुरक्षायाः पालनस्य निर्देशान् दत्तवान्।जनपदाधिकारी सिंहः उक्तवान् यत् यदि सुरक्षासम्बन्धे उपेक्षा क्रियते तर्हि सम्बद्धसंस्थायाः विरुद्धं कार्यवाही निश्चितरूपेण क्रियते।
---------------
Hindusthan Samachar / Dheeraj Maithani