रक्षामन्त्री राजनाथसिंहः वियतनाम-दक्षिण-कोरिया-देशयोः यात्रायै प्रस्थितवान्, सः द्विपक्षीय-वार्ताः करिष्यति
नवदिल्ली, १८ मे-मासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः सोमवासरे वियतनाम-दक्षिण-कोरिया-देशयोः आधिकारिक-यात्रायै प्रस्थितवान्। रक्षामन्त्रिणा एतयोः एशियाई-देशयोः यात्रया द्विपक्षीय-सम्बन्धानां अधिक-प्रगाढता भविष्यतीति आशा व्यक्तीकृता। तेन उक्तं यत् अ
वियतनाम और दक्षिण कोरिया की यात्रा पर रवाना होते हुए रक्षा मंत्री राजनाथ सिंह


नवदिल्ली, १८ मे-मासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः सोमवासरे वियतनाम-दक्षिण-कोरिया-देशयोः आधिकारिक-यात्रायै प्रस्थितवान्। रक्षामन्त्रिणा एतयोः एशियाई-देशयोः यात्रया द्विपक्षीय-सम्बन्धानां अधिक-प्रगाढता भविष्यतीति आशा व्यक्तीकृता। तेन उक्तं यत् अस्य प्रवासस्य मुख्य-उद्देश्यं रणनीतिक-सैन्य-सहयोगस्य, रक्षा-उद्योगे सहभागितायाः तथा सामुद्रिक-सहयोगस्य दृढीकरणम् अस्ति, येन हिन्द-प्रशान्त-क्षेत्रे शान्तिः स्थिरता च प्रोत्साहिता भवेत्।

रक्षामन्त्री राजनाथ-सिंहः १८ तः १९ मई-पर्यन्तं वियतनाम-देशस्य भ्रमणं करिष्यति, ततः परं १९ तः २१ मई-पर्यन्तं दक्षिण-कोरिया-देशस्य यात्रां करिष्यति। रक्षामन्त्रिणः वियतनाम-यात्रा उभय-देशयोः व्यापक-रणनैतिक-सहभागितायाः दशवर्ष-पूर्णतायाः अवसरे भवति। वियतनाम-राष्ट्रपतेः ५ तः ७ मे-मास-पर्यन्तं भारत-यात्रायाः समये एषा व्यापक-रणनैतिक-सहभागिता अधिक-उन्नत-स्तरे स्थापिताभवत्। राजनाथ-सिंहः वियतनामस्य राष्ट्रीय-रक्षा-मन्त्री फानवानजियांगेन सह द्विपक्षीय-वार्तां करिष्यति।

अस्मात् पूर्वं रक्षामन्त्रिणा ८ तः १० जूनमासः २०२२-पर्यन्तं पूर्व-यात्रा कृता आसीत्, यस्याम् भारत-वियतनाम-रक्षा-सहभागितां प्रति २०३०-वर्षपर्यन्तं संयुक्त-दृष्टिकोण-वक्तव्ये हस्ताक्षरं कृतम्। अयं दृष्टिकोणः द्विपक्षीय-रक्षा-सहयोगाय स्पष्टं परिभाषितं च मार्गं प्रदर्शयति। उभयोः लोकतान्त्रिक-देशयोः क्षेत्रीय-शान्तेः समृद्धेः च विषये समान-हितम् अस्ति। राजनाथ-सिंहस्य एषा यात्रा वियतनामस्य पूर्व-राष्ट्रपतेः होचीमिन्हः १३६-तम-जयंती-अवसरे भवति। अतः रक्षामन्त्री हो-ची-मिन्हस्य समाधिस्थले पुष्पाञ्जलिं समर्पयित्वा श्रद्धाञ्जलिं प्रदास्यति।

दक्षिण-कोरिया-यात्रायाः समये राजनाथ-सिंहः कोरिया-गणराज्यस्य रक्षामन्त्री आन ग्यू-बैकेन सह द्विपक्षीय-वार्तां करिष्यति। उभौ मन्त्रिणौ उभय-देशयोः रक्षा-सहयोगस्य समीक्षां करिष्यतः तथा द्विपक्षीय-सम्बन्धान् अधिकं दृढीकर्तुं नवीन-उपक्रमेषु विचार-विमर्शं करिष्यतः। तौ समान-हितसम्बद्धेषु क्षेत्रीय-वैश्विक-विषयेषु अपि स्वविचारान् विनिमयिष्यतः। रक्षामन्त्री रक्षा-अधिग्रहण-कार्यक्रम-प्रशासनस्य मन्त्री ली-योंग-चेओल इत्यनेन सह अपि मिलिष्यति तथा भारत-कोरिया-व्यापार-गोलमेज-सम्मेलनस्य अध्यक्षतां करिष्यति।

शहीद-सैनिकेभ्यः श्रद्धाञ्जलिं समर्पयितुं २१ मई-दिने दक्षिण-कोरिया-देशे भारतीय-युद्ध-स्मारकस्य संयुक्त-उद्घाटनं भविष्यति, यस्मिन् दक्षिण-कोरिया-देशस्य मन्त्री क्वोन-ओह-यूल: अपि सहभागी भविष्यति। भारतस्य ‘एक्ट-ईस्ट-नीतिः’ तथा दक्षिण-कोरियादेशस्य ‘इण्डो-पैसिफिक-रणनीतिः’ इत्येतयोः स्वाभाविक-सामञ्जस्यं, हिन्द-प्रशान्त-क्षेत्रे समान-मूल्यानि च उभय-देशयोः सम्बन्धेषु नवीनम् अध्यायं योजितवन्ति।

कोरियाई-युद्धे भारतस्य योगदानं इतिहासस्य अत्यन्त-महत्त्वपूर्णेषु अध्यायेषु अन्यतमम् अस्ति, यत् वैश्विक-शान्ते: स्थिरतां प्रति भारतस्य अटल-प्रतिबद्धतां प्रदर्शयति।दक्षिण-कोरिया-देशे भारतीय-सेनायाः ६०-पैराशूट-फील्ड-एम्बुलेन्स-इत्यस्य सज्जता युद्धे शान्तेः सद्भावस्य च स्थापनार्थं कृता आसीत्। त्रिवर्षाधिक-कालपर्यन्तं सेवां कुर्वन् एष: विभाग: द्विलक्षाधिक-रोगिणां उपचारं कृतवान् तथा प्रायः २५०० शल्य-चिकित्सा-क्रियाः सम्पन्ना:, अनेकेषां नागरिकाणाम् अपि उपचारं कृतवान्। भारतस्य अपरं महत्त्वपूर्णं योगदानं तटस्थ-राष्ट्र-प्रत्यावर्तन-आयोगस्य अध्यक्षता आसीत्, यत् संयुक्त-राष्ट्र-संघाय भारतस्य प्रस्तावः आसीत् तथा बहुमतेन स्वीकृतः। अस्य अनुसारं युद्धोत्तर-चरणे ५२३०-सैनिकयुक्तया भारतीय-सेनायाः कस्टोडियन-दल-इत्यनया प्रायः २००० युद्धगृहीतानां शान्तिपूर्ण-प्रत्यावर्तनं सम्पन्नम्।

Hindusthan Samachar / Divya Ranjan