सतीशनः केरलस्य मुख्यमंत्रिरूपेण अगृह्णात् शपथवचनम्
तिरुवनंतपुरम् (केरलम्), 18 मईमासः (हि.स.)। काङ्ग्रेसदलस्य नेता वीडी सतीशनः अद्य अत्र केंद्रीयक्रीडांगणे केरलस्य मुख्यमन्त्रिरूपेण शपथवचनं स्वीकृतवान्। सः राज्यस्य काङ्ग्रेस-नेतृत्वयुक्त-यूनाइटेड्-डेमोक्रेटिक्-फ्रण्ट (यूडीएफ्) शासनस्य नेतृत्वं कर
वीडी सतीशन। फोटो - फाइल


तिरुवनंतपुरम् (केरलम्), 18 मईमासः (हि.स.)।

काङ्ग्रेसदलस्य नेता वीडी सतीशनः अद्य अत्र केंद्रीयक्रीडांगणे केरलस्य मुख्यमन्त्रिरूपेण शपथवचनं स्वीकृतवान्। सः राज्यस्य काङ्ग्रेस-नेतृत्वयुक्त-यूनाइटेड्-डेमोक्रेटिक्-फ्रण्ट (यूडीएफ्) शासनस्य नेतृत्वं करिष्यति। तस्मै राज्यपालः राजेन्द्रविश्वनाथ-आर्लेकरः शपथवचनं दापितवान्। सतीशनस्य सह मन्त्रिमण्डलस्य सहयोगिनः अपि शपथं स्वीकृतवन्तः। मन्त्रिपरिषदि काङ्ग्रेसदलस्य ११ सदस्याः, इण्डियन-यूनियन-मुस्लिम-लीग-दलस्य पञ्च सदस्याः, तथा यूडीएफ-संघटनस्य अन्ये सहयोगिनः समाविष्टाः सन्ति।

काङ्ग्रेसअध्यक्षः मल्लिकार्जुन-खरगे, लोकसभायाः विपक्ष-नेता राहुल-गान्धी, वायनाड्-सांसद् प्रियङ्का-गान्धी-वाड्रा तथा अन्ये काङ्ग्रेस-नेतारः शपथग्रहण-समारोहे उपस्थिताः आसन्। मन्त्रिपरिषदि काङ्ग्रेसदलस्य रमेशचेन्निथला, सन्नीजोसेफ, के-मुरलीधरनः, एपी-अनिल-कुमारः, पीसीविष्णुनाथः, टी-सिद्दीकी, बिन्दु-कृष्णा, केए-तुलसी, रोजी-एम्-जॉन, एम्-लिजू तथा ओजे-जनीशः स्थानं प्राप्तवन्तः।

इण्डियन-यूनियन्-मुस्लिम्-लीग्-दलस्य पीके-कुन्हालीकुट्टी, एन-शमसुद्दीनः, केएम्-शाजी, पीके-बशीरः तथा वीई-अब्दुल-गफूरः मन्त्रिपदस्य शपथवचनं स्वीकृतवन्तः।

अन्येषु गठबन्धन-सहयोगिषु केरल-काङ्ग्रेस् (जोसेफ्) दलस्य मॉन्स्-जोसेफः, रिवोल्यूशनरी-सोशलिस्ट्-पार्टी-दलस्य शिबू-बेबी-जॉनः, केरल-काङ्ग्रेस् (जैकब्) दलस्य अनूप्-जैकबः तथा कम्युनिस्ट्-मार्क्सवादी-पार्टी-दलस्य सीपी-जॉनः अपि मन्त्रिपदस्य शपथवचनं स्वीकृतवन्तः।

यूडीएफ्-संघटनेन केरलराज्ये २०२६-विधानसभा-निर्वाचनम् स्पष्ट-जनादेशेन १०२-आसनानि प्राप्त्वा विजितम्।

---------------

Hindusthan Samachar / Dheeraj Maithani