Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १८ मे-मासः (हि.स.)। मध्यप्रदेशे अर्वाचीनकाले नियुक्तानां निगम-मण्डल-बोर्ड-प्राधिकरण-आयोगानां अध्यक्षाणाम् उपाध्यक्षाणां च कृते अद्य सोमवासरे विशेष-प्रशिक्षण-कार्यक्रमः आयोज्यते। मन्त्रि-दर्जा-प्राप्तानाम् एतेषां पदाधिकाऱिणां प्रशिक्षणम् अटल-बिहारी-वाजपेयी-सुशासन-नीति-विश्लेषण-संस्थाने, भोपाले प्रातः ९ वादनात् आरभ्य भविष्यति।
प्रशिक्षण-कार्यक्रमस्य उद्घाटनं मुख्यमन्त्री डॉ.मोहनयादवः करिष्यति। ततः परं सामान्य-प्रशासन-विभागस्य, वित्त-विभागस्य तथा अटल-बिहारी-वाजपेयी-संस्थानस्य वरिष्ठ-अधिकारिणः विविध-विषयेषु प्रस्तुतीकरणं दास्यन्ति। अस्मिन् कार्यक्रमे आहत्य ६३ नवनियुक्ताः गैर-सर्वकारी-पदाधिकारिणः सहभागिनः भवन्ति। प्रशिक्षणं मध्याह्न-२ वादनपर्यन्तं चलिष्यति।
सामान्य-प्रशासन-विभागस्य निर्देशानुसारम् १८ विभागानाम् अपर-मुख्य-सचिवाः, प्रमुख-सचिवाः सचिव-स्तरीय-अधिकारिणश्च अपि कार्यक्रमे उपस्थिताः भविष्यन्ति। एते अधिकारिणः निगम-मण्डलानां सञ्चालनम्, वित्तीय-प्रबन्धनम्, शासन-प्रक्रिया, नीतयः, अधिकाराः, दायित्वानि उत्तरदायित्वानि च सम्बद्धां विस्तृत-सूचनां प्रदास्यन्ति।
वास्तवतः अर्वाचीनकाले केषाञ्चन अध्यक्षानां पदभार-ग्रहण-समये निष्कासितानां वाहन-शोभायात्राणां विषये विवादः उत्पन्नः आसीत्। अस्मिन् प्रकरणे भाजपायाः नेतृत्वस्य अप्रसन्नता अपि प्रकटिता आसीत्। ततः परं दलस्य भिण्ड-कृषक-मोर्चा-जनपदाध्यक्षः सज्जनसिंह-ठाकुरः पदतः अपासारितः, यदा तु पाठ्यपुस्तक-निगमस्य अध्यक्षः सौभाग्यसिंह-ठाकुरः सूचनापत्रं प्राप्तवान् तथा तस्य अधिकाराः अस्थायिरूपेण सीमिताः कृताः सन्ति। भविष्ये एतादृश-स्थितीनां निवारणार्थं तथा पदाधिकाऱिणां प्रशासनिक-मर्यादानां ज्ञानप्रदानेन एतत् प्रशिक्षणम् आयोज्यते। सहैव विभागीय-मन्त्रिभिः अधिकारिभिश्च सह कस्यापि प्रकारस्य संघर्ष-स्थितिः न भवेत्, एतदर्थम् अपि अध्यक्षेभ्यः उपाध्यक्षेभ्यश्च तेषाम् अधिकाराणां सीम्नां च स्पष्ट-सूचना प्रदास्यते।
-------
Hindusthan Samachar / Divya Ranjan