विश्वपराआर्मरेसलिंगचैम्पियनशृंखलायाः-2026 आतिथेयं करिष्यति दिल्ली
मुंबई, 18 मईमासः (हि.स.)। भारतीयआर्मरेसलिंगक्षेत्रस्य ऐतिहासिकक्षणे दिल्लीनगर्यै ४७ तमी विश्वआर्मरेसलिंग तथा २८ तमी पैरा-आर्मरेसलिंग-चैम्पियनशृंखलायाः-२०२६ आयोजनस्य दायित्वं प्रदत्तम्। एषा प्रतिष्ठिता प्रतियोगिता २६ अक्टूबरतः ७ नवम्बरपर्यन्तं दि
एशियन आर्मरेसलिंग फेडरेशन की उपाध्यक्ष प्रीति झंगियानी (बीच में))


मुंबई, 18 मईमासः (हि.स.)।

भारतीयआर्मरेसलिंगक्षेत्रस्य ऐतिहासिकक्षणे दिल्लीनगर्यै ४७ तमी विश्वआर्मरेसलिंग तथा २८ तमी पैरा-आर्मरेसलिंग-चैम्पियनशृंखलायाः-२०२६ आयोजनस्य दायित्वं प्रदत्तम्। एषा प्रतिष्ठिता प्रतियोगिता २६ अक्टूबरतः ७ नवम्बरपर्यन्तं दिल्लीनगरस्थिते लीला-एम्बियंस-कन्वेंशन-होटले आयोजिता भविष्यति।

अस्यां विश्वस्तरीयप्रतियोगितायां ७५ अधिकदेशेभ्यः प्रायः २००० क्रीडकानां सहभागिता अपेक्ष्यते। एषा आर्मरेसलिंग-जगतः सर्वेषु महत्त्वपूर्णेषु अन्तरराष्ट्रीय-आयोजनेषु अन्यतमा मन्यते।

अवधेयम् अस्ति यत् अस्मिन्नेव लीला-एम्बियंस-कन्वेंशन-पथिकाश्रये २०२५ एशियाई-आर्मरेसलिंग तथा पैरा-आर्मरेसलिंग-चैम्पियनशिप् इत्यस्य आयोजनम् अभवत्, यस्मिन् भारतेन उत्कृष्टप्रदर्शनं कृत्वा विविधवर्गेषु कुलम् १७६ पदकानि जितानि तथा महाद्वीपीयप्रतियोगितायां द्वितीयं स्थानं प्राप्तम्।

विश्वआर्मरेसलिंगमहासंघस्य अध्यक्षः असेनहाजीतोदोरोव-महोदयः उक्तवान्, “अहं विश्वस्य सर्वान् शक्तिशालिनः क्रीडकान् दिल्लीनगर्यां आयोज्यमानायै विश्वचैम्पियनशिप्-प्रतियोगितायै आमन्त्रयामि। अस्माकं विश्वासः अस्ति यत् भारते उत्कृष्टम् आयोजनं मित्राणां च श्रेष्ठा आतिथ्यपरम्परा भविष्यति। आगच्छामः, वयं सर्वे मिलित्वा दिल्लीनगर्यां एतां प्रतियोगितां संस्मरणीया करिष्यामः।”

पीपल्स-आर्मरेसलिंग-फेडरेशन-इण्डिया (पीएएफआई) इत्यस्याः अध्यक्षा तथा एशियन-आर्मरेसलिंग-फेडरेशन इत्यस्य उपाध्यक्षा प्रीति-झंगियानी-महोदया उक्तवती, “विश्वआर्मरेसलिंग तथा पैरा-आर्मरेसलिंग-चैम्पियनशृंखलायाः भारते आयोजनं क्रीडायै क्रीडकानां च कृते अत्यन्तं गौरवपूर्णः क्षणः अस्ति। २०२५ एशियाई-चैम्पियनशिप्-प्रतियोगितायाः महान् सफलतापश्चात् अस्माकं पूर्णः विश्वासः अस्ति यत् दिल्ली पुनरपि क्रीडकान्, अधिकारिणः तथा दर्शकान् विश्वस्तरीयं अनुभवम् प्रदास्यति।”

प्रो-पंजा-लीग् इत्यस्य सह-संस्थापकः परवीन-डबास-महोदयः उक्तवान्, “भारतं शीघ्रमेव वैश्विक-आर्मरेसलिंगक्षेत्रस्य प्रमुखकेन्द्रं भवति। विश्वचैम्पियनशिप्-आयोजनस्य दायित्वं देशे अस्य क्रीडायाः वर्धमानलोकप्रियतायाः तथा पीएएफआई एवं प्रो-पंजा-लीग् इत्येतयोः बहुवर्षीयपरिश्रमस्य प्रमाणम् अस्ति। एशियाई-चैम्पियनशिप्-प्रतियोगिताकाले प्राप्तः उत्कृष्टः समर्थनः एतत् सिद्धं कृतवान् यत् भारतस्य समीपे अन्ताराष्ट्रियस्तरीय-आयोजनानां सफलसंचालनाय आवश्यकाधारभूतसंरचना, उत्साहः तथा दर्शकाः विद्यमानाः सन्ति।”

---------------

Hindusthan Samachar / Dheeraj Maithani