खेल मंत्री आदव अर्जुनो जवाहरलाल नेहरू इंडोरक्रीडांगणस्य अकरोत् निरीक्षणम्, अवदत्- “ अस्ति मे गृहम्”
चेन्नई, 18 मईमासः (हि.स.)। तमिलनाडुराज्यस्य नूतनसरकारे लोकनिर्माणक्रीडामन्त्री आदवअर्जुनः सोमवासरे चेन्नईनगरस्य पेरियामेटस्थितस्य नेहरूइण्डोरस्टेडियमस्य निरीक्षणं कृतवान्। तेन एतत् क्रीडांगणं स्वगृहवत् इति उक्तम्। लोकनिर्माणक्रीडामन्त्री आदवअर्ज
आदव अर्जुना


चेन्नई, 18 मईमासः (हि.स.)।

तमिलनाडुराज्यस्य नूतनसरकारे लोकनिर्माणक्रीडामन्त्री आदवअर्जुनः सोमवासरे चेन्नईनगरस्य पेरियामेटस्थितस्य नेहरूइण्डोरस्टेडियमस्य निरीक्षणं कृतवान्। तेन एतत् क्रीडांगणं स्वगृहवत् इति उक्तम्।

लोकनिर्माणक्रीडामन्त्री आदवअर्जुनः नेहरूइण्डोक्रीडांगणम् अगच्छत्। तत्र तेन क्रीडकानां कृते उपलब्धानां सुविधानां छात्रावासनिर्वाहस्य निर्माणकार्याणां सहितं विभिन्नव्यवस्थानां स्थले एव निरीक्षणं कृत्वा अधिकारिभिः सह चर्चा कृता।

अस्मिन् अवसरे मन्त्री अर्जुनः उक्तवान् यत् अहं अत्र केवलं क्रीडामन्त्रीरूपेण न आगतः। अहम् अस्मिन्नेव स्थले छात्रावासस्य छात्ररूपेण अवसम् तथा क्रीडकरूपेण प्रगतिं प्राप्तवान्। अतः एषः प्रदेशः मम कृते केवलं कार्यालयः न अपितु गृहवत् अस्ति।

तेन क्रीडकानां छात्रावासे प्रदीयमानस्य भोजनस्य गुणवत्तायाः क्रीडकानां प्रशिक्षकाणां च आवश्यकतानां तथा प्रशिक्षणसुविधानां विषये प्रत्यक्षरूपेण जानकारी गृहीता। सहैव प्रचलितनिर्माणकार्याणां प्रगतिसम्बन्धे अधिकारिभ्यः विस्तृतसूचना प्राप्ता। मन्त्रिणा अधिकारिणः निर्देशिताः यत् क्रीडकानां आवश्यकताः शीघ्रं पूर्यन्ताम् तथा उच्चगुणवत्तायुक्तानां आधारभूतक्रीडासुविधानां निर्माणं प्राथमिकतया क्रियताम्।

नेहरूइण्डोरक्रीडांगणस्य निरीक्षणानन्तरं मन्त्री आदवअर्जुनस्य चेन्नईनगरस्य मरीनाकामराजरमार्गस्थितं लोकनिर्माणविभागस्य कार्यालयम् अपि गन्तुं कार्यक्रमः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani