Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, १८ मे-मासः (हि.स.)। केन्द्रीय-गृह-सहकारिता-मन्त्री अमितशाहः स्वस्य त्रिदिवसीय-छत्तीसगढ-प्रवासस्य द्वितीयदिने सोमवासरे रायपुरतः वायुसेनायाः विशेष-विमानेन जगदलपुरस्थितं दन्तेश्वरी-विमान-स्थानकम् आगच्छत्। तस्य आगमनं प्रायः मध्याह्ने सार्धद्वादशवादनकाले अभवत्।
विमानस्थानके मुख्यमन्त्री विष्णुदेवसायः, उपमुख्यमन्त्री विजय-शर्मा, भाजपा-प्रदेशाध्यक्षः किरण-देवः, बस्तर-सांसदः महेश-कश्यपः, महापौरः संजय-पाण्डेयः, बस्तर-आयुक्तः डोमन-सिंहः, बस्तर-आईजी सुन्दरराज-पी च अन्ये जनप्रतिनिधयः वरिष्ठ-अधिकारीणश्च केन्द्रीय-गृहमन्त्रिणः आत्मीयं स्वागतं कृतवन्तः।
औपचारिक-स्वागतस्य अनन्तरं केन्द्रीय-गृहमन्त्री विलम्बं विना वायुसेनायाः हेलिकॉप्टरयानद्वारा बस्तर-जनपदे नेतानारस्थितं सीआरपीएफ-शिविरं प्रति प्रस्थितवान्। तत्र सः नक्सल-विरोधि-अभियानेषु बलिदानं कृतवतः सैनिकान् प्रति श्रद्धाञ्जलिं समर्पयिष्यति। अयं प्रवासः बस्तर-क्षेत्रस्य सुरक्षा-स्थितेः नक्सल-विरोधि-अभियानानां च समीक्षया सह बलिदान-सैनिकानां सम्मानार्थं सुरक्षा-बलानां मनोबलस्य दृढीकरणाय च अत्यन्तं महत्त्वपूर्णः मन्यते।
Hindusthan Samachar / Divya Ranjan