Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, १८ मे-मासः (हि.स.)। केन्द्रीय-गृह-सहकारितामन्त्री अमितशाहः त्रिदिवसीय-छत्तीसगढ-प्रवासे वर्तते। १७ मई-दिनाङ्कस्य रात्रौ सः रायपुरम् अगच्छत्। अद्य सः बस्तर-क्षेत्रस्य भ्रमणं करिष्यति। सः जगदलपुर-विमान-स्थानकात् प्रत्यक्षतया नेतानार-ग्रामं गमिष्यति। शाह-महोदयः नेतानार-ग्रामे वीर-शहीद-गुण्डाधुरस्य ग्रामात् जन-सुविधा-केन्द्रस्य शुभारम्भं करिष्यति। अस्मिन् उच्चस्तरीय-प्रवासे गृहमन्त्री सुरक्षाव्यवस्थायाः सुदृढीकरणाय, जनसुविधानां विस्ताराय, स्थानीय-समाजेन सह प्रत्यक्ष-संवादाय, तथा विविध-उच्च-नीतिगत-प्रशासनिक-सभानां नेतृत्वाय च प्रवृत्तः भविष्यति।
अमित-शाहस्य प्रवासस्य द्वितीय-दिने अद्य प्रातः १०:१५ वादने रायपुर-स्थितस्य आरक्षक-प्रशिक्षण-विद्यालयस्य संचलन-प्राङ्गणात् राज्यस्य आपत्कालीन-सेवा “नेक्स्ट-जेन-सीजी-डायल-११२” इत्यस्य नूतन-आधुनिक-यानानां हरित-ध्वज-प्रदर्शनेन प्रेषणं करिष्यति। तदनन्तरं सः बस्तर-जनपदस्य नेतानार-ग्रामाय प्रस्थितः भविष्यति, यत्र प्रातः ११:४५ वादने सुदूर-अञ्चलेषु शासकीय-डिजिटल-सेवानां सुलभतायै ‘जन-सुविधा-केन्द्रस्य’ भव्य-शुभारम्भः भविष्यति।
जगदलपुरे गृहमन्त्री शाहः अपराह्णे ०१:०० वादने अमर-वाटिकां गत्वा राष्ट्र-रक्षणाय स्वप्राणान् समर्पितवतः अमर-बलिदानिनः प्रति भावपूर्णां श्रद्धाञ्जलिम् अर्पयिष्यति। ततः परम् अपराह्णे ०२:०० वादने जगदलपुरस्य बादल-अकादम्यां वृहद्-संवाद-कार्यक्रमस्य आयोजनं भविष्यति, यत्र शाह-महोदयः बलिदानिनां परिवारजनैः, नक्सल-मोर्चायां नियुक्तैः सीआरपीएफ-सैनिकैः, राज्यस्य विशेष-सुरक्षा-बलैः, आरक्षक-अधिकारिभिः, नक्सल-पीडितैः, तथा स्थानीय-विविध-समाजानां प्रमुख-प्रबुद्ध-प्रतिनिधिभिः सह मिलित्वा भूमिस्तरे व्यापक-चर्चां करिष्यति।
तदनन्तरं सायं ०६:३० वादने बादल-अकादम्यां एव आयोजितः ‘बस्तरेण सह’ इति लोक-सांस्कृतिक-कार्यक्रमः भविष्यति, यस्मिन् सः मुख्यातिथिरूपेण सहभागी भूत्वा बस्तरस्य विशिष्ट-जनजातीय-कलायाः संस्कृतेः च अवलोकनं करिष्यति। १९ मई-दिनाङ्के शाह-महोदयः जगदलपुरे आयोज्यमानस्य अन्यस्य महत्वपूर्णस्य उच्चस्तरीय-कार्यक्रमस्य नेतृत्वं करिष्यति।
---------
Hindusthan Samachar / Divya Ranjan