जनसेवा, सुरक्षा सुशासनं च सर्वकारस्य संकल्पः : मुख्यमंत्री योगी
‘जनता दर्शने’ आगताभिः जनताभिः सहामिलत् मुख्यमंत्री योगी,प्रत्येकं आगंतुकस्य अशृणोत् समस्याम् लखनऊ, 18 मईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः अत्यन्तव्यस्तदिनचर्यायाः मध्ये अपि सोमवासरे जनतादर्शनकार्यक्रमं सम्पन्नवान्। मुख्यमन्त्री प्रदेशस्य
जनता दर्शन में योगी


‘जनता दर्शने’ आगताभिः जनताभिः सहामिलत् मुख्यमंत्री योगी,प्रत्येकं आगंतुकस्य अशृणोत् समस्याम्

लखनऊ, 18 मईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः अत्यन्तव्यस्तदिनचर्यायाः मध्ये अपि सोमवासरे जनतादर्शनकार्यक्रमं सम्पन्नवान्। मुख्यमन्त्री प्रदेशस्य विभिन्नजनपदेभ्यः आगतान् फरियादिनः मिलित्वा सर्वेषां समस्याः अशृणोत्।

मुख्यमन्त्री सर्वेभ्यः उक्तवान् यत् जनसेवा सुरक्षा सुशासनं च सरकारस्य संकल्पः अस्ति। भवतां प्रत्येकस्य उचितसमस्यायाः समाधानं भविष्यति। मुख्यमन्त्री अधिकारिणः निर्देशितवान् यत् निर्धारितसमयसीमायाः अन्तर्गतं समस्याणां निस्तारणं क्रियताम्। जनतादर्शनकार्यक्रमे बिहारराज्यात् अपि एका महिला मुख्यमन्त्रिणं मेलितुं प्राप्तवती। मुख्यमन्त्री तस्याः अभिवादनं कृत्वा कुशलप्रश्नम् अकरोत्।

जिलाधिकारीआरक्ष्यधीक्षकश्च स्वयमेव समस्यायाः समाधानं कुर्याताम्

मुख्यमन्त्री योगी सर्वेषां प्रार्थनापत्राणि स्वीकृत्य सम्बद्धजनपदानां अधिकारिणः निर्देशितवान् यत् प्रकरणस्य परीक्षणं कृत्वा पीडितेभ्यः न्यायः प्रदीयताम्। तेन उक्तं यत् जिलाधिकारी पुलिसअधीक्षकश्च स्वयमेव प्रकरणेषु दृष्टिं स्थापयेताम् तथा पीडितानां समस्याणां समाधानं सुनिश्चितं कुर्याताम्। मुख्यमन्त्री उक्तवान् यत् प्रत्येकस्य आवश्यकतायुक्तस्य जनस्य समस्यासमाधानं अस्माकं सरकारस्य प्रतिबद्धता अस्ति।

मुख्यमन्त्री अधिकारिणः निर्देशितवान् यत् पूर्णतत्परतया संवेदनशीलतया च सुनिश्चितं क्रियताम् यत् भेदभावं विना सर्वेभ्यः न्यायः प्राप्येत। प्रत्येकः पात्रः योजनानां लाभं प्राप्नुयात् आवश्यकतायुक्तानां समुचितचिकित्सायाः व्यवस्था भवेत् भूमिग्रहणकर्तृभ्यः भूमिमाफियाजनभ्यः दुष्टजनाभ्यश्च विरुद्धं कठोरकार्यवाही क्रियताम्। मुख्यमन्त्री राजस्वसम्बद्धेषु विधिव्यवस्थासम्बद्धेषु च प्रकरणेषु शीघ्रनिस्तारणस्य निर्देशान् दत्तवान्।

महाराजजी प्रणामः काचिदपि समस्या नास्ति केवलं भवतः दर्शनं कर्तुम् आगतवती अस्मि

जनतादर्शनकार्यक्रमे मुख्यमन्त्री योगिनः प्रशंसिका एका महिला बिहारराज्यात् आगता आसीत्। मुख्यमन्त्री सर्वेषां समस्याः शृण्वन् तस्याः समीपम् अपि गतवान्। तेन पृष्टं यत् भवान् कुत्रतः आगता अस्ति तथा भवत्याः का समस्या अस्ति। अस्य उत्तररूपेण महिला उक्तवती महाराजजी प्रणामः अहं बिहारराज्यात् आगता अस्मि। मम काचिदपि समस्या नास्ति। केवलं भवतः दर्शनं कर्तुम् इच्छन्ती आगतवती अस्मि।

एतत् श्रुत्वा मुख्यमन्त्री योगी तस्याः अभिवादनं कृतवान् ततः उक्तवान् यत् अत्यधिकोष्णता वर्तते। अस्मिन् भीषणग्रीष्मकाले निरर्थकं गृहात् बहिः मा निर्गच्छन्तु तथा परिवारस्य सर्वेषां सदस्याणां विशेषरूपेण ध्यानं धारयन्तु।

---------------