मुख्यमंत्री योगी आदित्यनाथः प्रदेशवासिभ्योऽलिखत् पत्रम्
लखनऊ, 18 मईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः उत्तरप्रदेशस्य जनतायै पत्रं लिखितवान्। तेन स्वपत्रे लिखितं यत् प्रधानमन्त्री नरेन्द्रमोदी पाण्डुलिपीः भारतस्य आत्मनः अध्यायम् इति मन्यते। संततिभ्यः सञ्चितस्य ज्ञानस्य लाभः अद्य वयं केवलं तस्मात्
योगी की प्रदेशवासियों को चिट्ठी


लखनऊ, 18 मईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः उत्तरप्रदेशस्य जनतायै पत्रं लिखितवान्। तेन स्वपत्रे लिखितं यत् प्रधानमन्त्री नरेन्द्रमोदी पाण्डुलिपीः भारतस्य आत्मनः अध्यायम् इति मन्यते। संततिभ्यः सञ्चितस्य ज्ञानस्य लाभः अद्य वयं केवलं तस्मात् प्राप्नुमः यतः एताः पाण्डुलिपयः सहस्रवर्षेभ्यः ज्ञानचेतनां जागरयन्त्यः स्थिताः सन्ति। वेदाः उपनिषदः रामायणम् इत्यादयः ग्रन्थाः अस्माकं धरोहराः सन्ति। पाण्डुलिपिषु गणितस्य विज्ञानस्य औषधस्य कलायाश्च ज्ञानं निहितम् अस्ति। एताः अस्माकं संस्कृतिं चिन्तनं च प्रदर्शयन्ति।

मुख्यमन्त्री उक्तवान् यत् अहं सर्वान् अनुरोधं करोमि यत् पाण्डुलिपीनां संरक्षणार्थं अग्रे आगच्छन्तु। अधुना यावत् प्रायः सप्तलक्षपाण्डुलिपीनां परिचयः कृतः अस्ति। यदि भवतां समीपे अपि काचित् प्राचीना पाण्डुलिपिः हस्तलिखितग्रन्थः ताडपत्रं वा उपलब्धम् अस्ति तर्हि तस्य सूचना ज्ञानभारतं दूरवाण्युपागमे पटले वा अपलोड् कुर्वन्तु येन तस्य संरक्षणं सुनिश्चितं कर्तुं शक्येत।

---------------

Hindusthan Samachar / Dheeraj Maithani