नमाजं पठनीयम् चेत् पर्यायानुसारं पठ्यताम्, किन्तु मार्गेषु न - मुख्यमन्त्री योगी
लखनऊ-नगरम्, १८ मे-मासः (हि.स.)। उत्तर-प्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् सार्वजनिक-मार्गेषु नमाज-पठनस्य अनुमतिः दातुं न शक्यते। यदि व्यवस्थया सह जीवनं यापनीयम् अस्ति, तर्हि नियमानां पालनम् आरभ्यताम्। नमाजं पठनीयम् चेत् पर्यायानुसार
मुख्यमंत्री योगी


लखनऊ-नगरम्, १८ मे-मासः (हि.स.)। उत्तर-प्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् सार्वजनिक-मार्गेषु नमाज-पठनस्य अनुमतिः दातुं न शक्यते। यदि व्यवस्थया सह जीवनं यापनीयम् अस्ति, तर्हि नियमानां पालनम् आरभ्यताम्। नमाजं पठनीयम् चेत् पर्यायानुसारं पठ्यताम्, वयं न निवारयिष्यामः।

मुख्यमन्त्री योगी सोमवासरे अत्र एकस्य हिन्दी-दैनिक-पत्रस्य स्थापना-दिवस-कार्यक्रमे स्वीयं सम्बोधनं कुर्वन् एतानि वक्तव्यानि उक्तवान्। तेन उक्तं यत् जनाः प्रायः पृच्छन्ति— “किम् उत्तर-प्रदेशे मार्गेषु नमाज-पठनं वस्तुतः न भवति?” सः प्रत्यवदत्— “निश्चितरूपेण न भवति। यूयं गत्वा स्वयं पश्यन्तु।” तेन उक्तं यत् मार्गाः गमनागमनार्थं भवन्ति, न तु कश्चन आगत्य चतुष्पथे नाटकं करोतु। “कः अधिकारः अस्ति तस्य मार्गं रुद्ध्वा आवागमनं बाधितुं?” इति प्रश्नम् अपि तेन उपस्थितम्। तेन उक्तं यत् यत्र नमाज-पठनस्य निर्धारितं स्थलं अस्ति, तत्र गत्वा नमाजः पठनीयः।

योगी-आदित्यनाथः अवदत् यत् केचन जनाः तस्मै उक्तवन्तः— “अस्माकं संख्या अधिका अस्ति, कथं भविष्यति?” तदा तेन उक्तं— “पर्यायानुसारं कुर्वन्तु। यदि गृहे निवासाय पर्याप्तं स्थानं नास्ति, तर्हि संख्या-नियन्त्रणम् अपि विचारणीयम्।

सामर्थ्याभावे कथं निरन्तरं संख्या वर्ध्यते?” तेन पुनरुक्तं यत् यदि व्यवस्थायाः सह वर्तितव्यम् अस्ति, तर्हि नियमानां पालनम् आवश्यकम्। “नमाजं पठन्तु, वयं निवारणं न करिष्यामः, किन्तु मार्गेषु कदापि न” इति तेन स्पष्टतया उक्तम्।

मुख्यमन्त्री अवदत् यत् सामान्य-नागरिकाः, रोगिणः, श्रमिकाः, कर्मचारिणः च मार्गेषु गच्छन्ति, अतः सर्वकारः मार्ग-अवरोधं कदापि न अनुमन्यते। “यदि प्रेम्णा स्वीकरिष्यन्ति तर्हि उत्तमम्, अन्यथा अन्यः उपायः स्वीकरिष्यते। संवादेन यदि स्वीकरोति तर्हि साधु, नोचेत् संघर्षेण अपि द्रष्टुं शक्यते” इति तेन उक्तम्। बरेली-नगरस्य उदाहरणं दत्त्वा तेन उक्तं यत् कतिपयैः जनैः तत्र “हस्त-परीक्षणम्” कृतम्, किन्तु तैः सर्वकारस्य शक्तिः दृष्टा। सर्वकारः सर्वां व्यवस्थां प्रणाली-सम्मतया संयोजयितुम् इच्छति इति तेन स्पष्टम्।

उत्तर-प्रदेशस्य परिवर्तित-स्थितेः उल्लेखं कुर्वन् योगी-आदित्यनाथः अवदत् यत् पूर्व-सर्वकाराणां काले एषः प्रदेशः कट्टा-बम-कलह-दस्यू-संस्कृतेः कारणेन परिचितः आसीत्, किन्तु अधुना ब्रह्मोस-प्रक्षेपास्त्रैः, डिफेन्स-परिसरैः, एक्सप्रेस-वे-मार्गैः, अन्ताराष्ट्रिय-विमानस्थानकैः तथा निवेश-केन्द्ररूपेण प्रसिद्धः जातः। उत्तम-न्याय-व्यवस्था, आधारभूत-संरचना तथा सकारात्मक-शासनस्य प्रभावेण प्रदेशः “बॉटम्-२” स्थानात् “टॉप-२” राज्येषु समागतः। तेन उक्तं यत् राज्ये अराजकता तथा अव्यवस्थाया: विषये “शून्य-सहनशीलता” नीति: प्रवर्तते। मार्गे गच्छन्तीं कन्यां प्रति दुर्व्यवहारं कुर्वतः व्यक्तेः दशा रावण-दुर्योधनयोः सदृशी भविष्यति इति संचेतना अपि तेन दत्ता।

मुख्यमन्त्री पत्रकारितायाः वर्तमान-स्थितेः विषये अपि उक्तवान् यत् मिथ्या-समाचाराः समाजे अराजकतां प्रसारयन्ति, यदा सकारात्मक-संवेदनशील-पत्रकारिता लोकतन्त्रं सुदृढं करोति। तेन भारतेन्दु-हरिश्चन्द्रस्य, लोकमान्य-तिलकस्य, महात्मा-गान्धिनः तथा गणेश-शङ्कर-विद्यार्थिनः पत्रकारितायां योगदानस्य उल्लेखः कृतः। तेन उक्तं यत् १९७५ तमे वर्षे लोकतन्त्रस्य दमन-प्रयासे मूर्धन्य-सम्पादकैः तथा वार्ताहरैः महत्त्वपूर्णा भूमिका निर्वुढा। लोकतन्त्रे विधायिका, न्यायपालिका, कार्यपालिका इव मीडिया अपि अत्यन्तं महत्त्वपूर्णा शक्ति: अस्ति। अधुना “डीप-फेक” तथा “फेक-न्यूज” इत्येतयोः संकटम् सर्वत्र दृश्यते इति तेन संचेतना दत्ता।

योगी-आदित्यनाथः अवदत् यत् यदि वार्तांकनं केवलं समाचार-उत्पादनस्य माध्यमं न भवेत्, अपितु संवेदनशीलतया क्रियेत, तर्हि अनेकेषु स्थलेषु “लॉ-एण्ड-ऑर्डर”-समस्याः न उत्पद्येरन्। समाचारैः तात्कालिक-लाभः सम्भवति, किन्तु यदि तत् मिथ्या-सिद्धं भवति, तर्हि उत्तरदायित्वं वोढव्यम् भवति। “एकवारं दुष्ट-समाचारात् अग्निः प्रज्वलिता चेत्, तस्याः शमनाय कालः आवश्यकः भवति” इति तेन उक्तम्। उत्तर-प्रदेशे पुनः कलह-कर्फ्यू-परिस्थितिः न भवेत् इति सर्वकारस्य इच्छा अस्ति, तथा राज्ये कस्यापि अराजकता-प्रसारणस्य अनुमतिः नास्ति इति तेन स्पष्टतया प्रतिपादितम्।

Hindusthan Samachar / Divya Ranjan