Enter your Email Address to subscribe to our newsletters

वाराणसी, 18 मईमासः (हि.स.)।
उत्तरप्रदेशस्य वाराणसीजिलायां कैण्ट् विधानसभाक्षेत्रात् विधायकः सौरभश्रीवास्तवः सोमवासरस्य प्रातःकाले स्वस्य चिरपरिचितेन शैलीन ईंधनसंरक्षणस्य अभियानं अग्रे नीतवान्।
विधायकः सौरभश्रीवास्तवः स्वस्य महमूरगञ्जस्थितात् आवासात् नेवादापर्यन्तं द्विचक्रिकया प्रस्थितवान्। द्विचक्रिकां चालयन् मार्गे मिलितानां जनानां कुशलप्रश्नं विधायकेन कृतम् तथा अस्मिन् समये विधायकस्य सहयोगिनः स्वीयदूरवाणीचित्रग्राहकेन चलच्चित्रनिर्माणं कुर्वन्तः आसन्।
विधायकः सौरभश्रीवास्तवः उक्तवान् यत् प्रधानमन्त्रिणः ऊर्जासंरक्षणसम्बद्धस्य आह्वानस्य पालनार्थं सः प्रतिदिनं द्विचक्रिकया जनसंपर्ककार्यक्रमं प्रति गच्छति। अस्माकं कृते एषः संकल्पपालनः केवलं प्रतीकात्मकं नास्ति अपितु दिनचर्यायाः अङ्गम् अस्ति। द्विचक्रिकाचलनेन स्वास्थ्यं सम्यक् भवति तथा मनोभावोऽपि प्रसन्नः भवति। जनसंपर्कक्षेत्रे प्राप्ते सति सः पुनः द्विचक्रिकातः अवतीर्य पदयात्रया जनसंपर्कं करोति। अस्य जनसंपर्ककार्यक्रमस्य नाम विधायकः भवतः गृहम् इति स्थापितम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani