वाराणसी : मणिकर्णिका तीर्थे चालितं स्वच्छताभियानम्
—पंचकोशी यात्रिभ्यः अनुरोधः , गंगायां प्रवाहितं वस्त्रं पुण्यं न प्रदूषणम्, गंगा तटे न त्यक्तव्यं वस्त्रम् वाराणसी, 18 मईमासः (हि.स.)।पुण्यसलिला गङ्गानद्यां प्रवाहितं वस्त्रं पुण्यं न अपितु प्रदूषणम् अस्ति। एतमेव सन्देशम् अग्रे नयन् सनातनधर्मे विश
वाराणसी: मणिकर्णिका तीर्थ पर स्वच्छता अभियान


—पंचकोशी यात्रिभ्यः अनुरोधः , गंगायां प्रवाहितं वस्त्रं पुण्यं न प्रदूषणम्, गंगा तटे न त्यक्तव्यं वस्त्रम्

वाराणसी, 18 मईमासः (हि.स.)।पुण्यसलिला गङ्गानद्यां प्रवाहितं वस्त्रं पुण्यं न अपितु प्रदूषणम् अस्ति। एतमेव सन्देशम् अग्रे नयन् सनातनधर्मे विशेषमहत्त्वयुक्तस्य पुरुषोत्तममासस्य प्रारम्भस्य अवसरः प्राप्तः इति कारणेन सोमवासरे मणिकर्णिकातीर्थे स्वच्छताअभियानं सञ्चालितम्। मणिकर्णिकाघाटे तथा समीपस्थेषु गङ्गाघाटेषु पञ्चकोशीयात्रिभिः श्रद्धालुभिश्च परित्यक्तानि पुरातनवस्त्राणि प्लास्टिकपदार्थाः अन्यच्च कचरं नमामि गङ्गे तथा नगरनिगमस्य संयुक्तदलैः श्रमदानपूर्वकं स्वच्छीकृतम्।

नगरनिगमस्य स्वच्छताकर्मचारिभिः सह प्रायः पञ्चशत-किलोपरिमितं कचरं संगृह्य नमामि गङ्गे इत्यस्य स्वयंसेवकसदस्यैः अवकरकंडोलपर्यन्तं नीतम्। अभियाने सम्मिलितः नगरनिगमस्य स्वच्छताब्राण्ड् एम्बेसडर् राजेशशुक्लः पञ्चकोशीयात्रिभ्यः अन्येभ्यः श्रद्धालुभ्यश्च प्रार्थनां कृतवान् यत् ते धार्मिकमान्यतानां नाम्ना गङ्गाजले अथवा तटेषु पुरातनवस्त्राणि न परित्यजन्तु तथा घाटानां स्वच्छतां रक्षितुं सहयोगं कुर्वन्तु।

तेन उक्तं यत् गङ्गायाः स्वच्छता एव गङ्गायाः पूजा अस्ति। गङ्गायां प्रवाहितं वस्त्रं पुण्यं न अपितु प्रदूषणम् अस्ति। पूजासामग्री श्रृङ्गारवस्तूनि वस्त्राणि च नद्यां प्रवाहयितुं स्थाने तानि स्पृष्ट्वा मन्दिरे अर्पणीयानि। माता गङ्गा सजीवा अस्ति। तस्यै पुष्पाणि आवश्यकानि सन्ति न तु परित्यक्तं वस्त्रम्।

अभियाने नगरनिगमस्य कर्मचारीणः रीना नीलम सुनीता मनोजः इत्यादयः सहभागित्वं कृतवन्तः।

Hindusthan Samachar / Dheeraj Maithani