मुख्यमंत्री धामी नवनियुक्त कार्मिकेभ्यो लिखित्वा पत्र अददात् शुभकामनाः
देहरादूनम्, 18 मईमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी गतचतुर्षु वर्षेषु सर्वकारीसेवायां चयनितेभ्यः कार्मिकेभ्यः डिजिटलमाध्यमेन पत्रं लिखित्वा तेषां उज्ज्वलभविष्याय शुभकामनाः प्रदत्तवान्। मुख्यमन्त्री धामी स्वपत्रे उक्तवान् यत् उत्तराखण्डस्य
मुख्यमंत्री धामी।


देहरादूनम्, 18 मईमासः (हि.स.)।

मुख्यमन्त्री पुष्करसिंहधामी गतचतुर्षु वर्षेषु सर्वकारीसेवायां चयनितेभ्यः कार्मिकेभ्यः डिजिटलमाध्यमेन पत्रं लिखित्वा तेषां उज्ज्वलभविष्याय शुभकामनाः प्रदत्तवान्।

मुख्यमन्त्री धामी स्वपत्रे उक्तवान् यत् उत्तराखण्डस्य जनतया तस्मै वर्षे २०२२ मध्ये द्वितीयवारं मुख्यसेवकस्य दायित्वं समर्पितम्। अस्य जनादेशस्य भावनानुसारं कार्यभारग्रहणस्य दिवसात् एव प्रदेशे बेरोजगारीसमस्यायाः निवारणार्थं सरकारीविभागेषु रिक्तपदेषु भर्तीसम्बद्धः व्यापकः अभियानः प्रारब्धः। ततः अनन्तरं गतचतुर्षु वर्षेषु राज्यसर्वकारेण प्रायः त्रिंशत्सहस्राधिकेभ्यः युवकेभ्यः राजकीयसेवकरूपेण नियुक्तिः प्रदत्ता अस्ति तथा एषः अभियानः अग्रेऽपि निरन्तरं प्रवर्तिष्यते।

मुख्यमन्त्री धामी पत्रे उक्तवान् यत् अधुना युवानः स्वस्य उत्कृष्टप्रतिभया कठिनपरिश्रमेण च राजकीयसेवायां चयनिताः भवन्ति। अस्मिन् योग्यतमचयने यत्र एकतः यूनां परिश्रमस्य प्रतिभायाश्च योगदानम् अस्ति तत्रैव राज्यसरकारस्य कठोरनकलविरोधिविधेयकस्य सह निष्पक्षया ईमानदारया पारदर्शकया च चयनप्रक्रियया अपि युवा प्रतिभायाः समुचितसम्मानः सुनिश्चितः कृतः अस्ति।

मुख्यमन्त्री उक्तवान् यत् उत्तराखण्डराज्यस्य राजकीयसेवकरूपेण चयनितत्वं सर्वेषां कार्मिकाणां परिवाराणां कृते तथा राज्यसरकारस्य कृते अपि अत्यन्तमहत्त्वपूर्णम् अस्ति। तेन चयनितकार्मिकेभ्यः निष्पक्षतया दायित्वनिष्ठया च स्वराजकीयदायित्वानां निर्वहनस्य अपीलं कृत्वा उक्तं यत् राजकीयसेवकरूपेण ते मानवीयमूल्यैः सह सामान्यजनसेवायां सर्वदा तत्पराः स्युः।

अस्मिन् अवसरे मुख्यमन्त्री अनेकैः चयनितयुवकैः सह दूरभाषमाध्यमेन संवादं कृत्वा तान् उत्साहपूर्वकं जनसेवायां योगदानं दातुम् अपि प्रेरितवान्।