Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, १८ मे-मासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः मातुः नर्मदायाः अनन्य-सेवकस्य पूर्व-केन्द्रीय-मन्त्रिणः स्वर्गीय-अनिल-माधव-दवे-वर्यस्य पुण्यतिथौ अद्य सोमवासरे भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्।
मुख्यमन्त्री डॉ.यादवः सामाजिक-पटले एक्स इत्यत्र सन्देशं प्रकाशितवान् यत् “मातुः नर्मदायाः अनन्य-उपासकाय, पर्यावरणविदे, प्रखर-चिन्तकाय च पूर्व-केन्द्रीय-मन्त्रिणे अनिल-माधव-दवे-वर्याय पुण्यतिथौ विनम्रां श्रद्धाञ्जलिम् अर्पयामि। नदीनाम् अविरलता-पर्यावरण-संरक्षणं प्रति तस्य समर्पणं सदा अनुकरणीयं भविष्यति। राष्ट्रीय-स्वयंसेवक-संघस्य प्रचारकात् केन्द्रीय-मन्त्री-पदपर्यन्तं तस्य जीवन-यात्रा सरलता-राष्ट्रसेवा-कर्तव्यनिष्ठानां उत्कृष्टम् उदाहरणम् अस्ति।”
----------------
Hindusthan Samachar / Divya Ranjan