Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 19 मईमासः (हि.स.)।
केन्द्रीयगृहमन्त्री अमितशाहस्य अध्यक्षतायाम् अद्य मङ्गलवासरे जगदलपुरे मध्यक्षेत्रीयपरिषदः षड्विंशतितमा उच्चस्तरीयोपवेशनम् आरब्धा। अस्याम् छत्तीसगढसहितानां चतुर्णां राज्याणां मुख्यमन्त्रिणः सहभागीभवन्ति। बस्तरक्षेत्रे प्रथमवारम् आयोज्यमाना एषा महत्त्वपूर्णोपवैशनं सुरक्षा-विकास-राज्यान्तरसमन्वयदृष्ट्या अत्यन्तम् महत्त्वपूर्णा मन्यते।
प्रशासनं सुरक्षासंस्थाश्च कार्यक्रमं प्रति पूर्णतया सजगस्थितौ सन्ति। जगदलपुरनगरे सुरक्षा-व्यवस्था अधिकं सुदृढा कृता अस्ति। बैठके सहभागित्वाय छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसाय मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवम् उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी च आत्मीयतया स्वागतं कृतवान्। अपरतः उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः अद्य प्रातःकाले जगदलपुरम् आगतः। मुख्यमन्त्रिणां वरिष्ठाधिकारिणां च आगमनानन्तरम् विमानस्थानकात् आरभ्य बैठकस्थलपर्यन्तं सुरक्षासंस्थाभिः विशेषनिगरानी क्रियते।
अस्यां संगोष्ठ्यां बहुषु महत्त्वपूर्णविषयेषु विस्तृतमन्थनं भविष्यति। तेषु अन्ताराज्यसमन्वयः, आन्तरिकसुरक्षाव्यवस्था, नक्सलप्रभावितक्षेत्राणां विकासः, शिक्षास्वास्थ्यसेवाः, पोषणयोजनाः, विद्युत्शहरीयविकासः, सहकारिता, प्रशासनिकसहयोगश्च समाविष्टाः सन्ति। उच्यते यत् राज्येषु उत्तमतालमेलस्य विकासपरियोजनानां शीघ्रगत्याः कृते च सहकारिरणनीतिः निर्मातुं शक्यते।
राजनीतिक-प्रशासनिकदृष्ट्या एतदुपवेशनम् अत्यन्तं महत्त्वपूर्णा मन्यते। परिषदः बैठकानन्तरं बस्तरसहितेषु मध्यक्षेत्रीयराज्येषु विकासपरियोजनाः नूतनगतिं प्राप्स्यन्ति। तेन सह नक्सलप्रभावितप्रदेशेषु सुरक्षा-व्यवस्थां सुदृढां कर्तुं समन्वितकार्यवाह्याः कृते च महत् रोडमैप् निर्मीयमानस्य सम्भावना अपि अस्ति।
पूर्वं नक्सलीयघटनाभिः चर्चायां स्थितः बस्तरप्रदेशः अधुना शीघ्रं विकासस्य शान्तेः च दिशि अग्रे गच्छन् दृश्यते। राष्ट्रियस्तरस्य अस्याः महत्याः गोष्ठ्याः आयोजनं बस्तरस्य परिवर्तितपरिचयस्य संकेतः मन्यते। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसाय उक्तवान् यत् बस्तरे एतादृश्याः उच्चस्तरीयोपवेशनस्य आयोजनं सम्पूर्णक्षेत्रस्य कृते गौरवस्य विषयः अस्ति। तेन उक्तं यत् अधुना बस्तरः शान्तेः विश्वासस्य विकासस्य च नूतना परिचयरेखा भवति।
---------------
Hindusthan Samachar / Dheeraj Maithani