आकाशवाण्याः नवतिवर्ष-पूर्णतायाः अवसरे प्रयागराजे सजीव-संगीत-सन्ध्यायाः आयोजनम्
प्रयागराजनगरम्, १९ मे-मासः (हि.स.)। आकाशवाण्याः गौरवपूर्ण-नवतिवर्ष-समापनस्य उपलक्ष्ये आकाशवाणी-प्रयागराजेन मङ्गलवासरे उत्तर-मध्य-क्षेत्र-सांस्कृतिक-केन्द्रस्य प्रेक्षागृहे सजीव-संगीत-सन्ध्यायाः भव्य-आयोजनं कृतम्। ज्ञातव्यं यत् स्वतन्त्रतायाः पूर्व
भारतीय वायु सेना कार्यक्रम प्रस्तुत करते


दीप प्रज्ज्वलित करते अतिथिगण


प्रयागराजनगरम्, १९ मे-मासः (हि.स.)। आकाशवाण्याः गौरवपूर्ण-नवतिवर्ष-समापनस्य उपलक्ष्ये आकाशवाणी-प्रयागराजेन मङ्गलवासरे उत्तर-मध्य-क्षेत्र-सांस्कृतिक-केन्द्रस्य प्रेक्षागृहे सजीव-संगीत-सन्ध्यायाः भव्य-आयोजनं कृतम्।

ज्ञातव्यं यत् स्वतन्त्रतायाः पूर्वं ८ जूनमासे १९३६ तमे वर्षे “इण्डियन-स्टेट-ब्रॉडकास्टिंग-सर्विस” इत्यस्य नाम परिवर्तनं कृत्वा “ऑल-इण्डिया-रेडियो” इति स्थापितम्। अद्य आकाशवाणी स्वस्य ५९१ केन्द्रैः, २३ भाषाभिः तथा १४६ वाणिभिः “बहुजन-हिताय बहुजन-सुखाय” इति मन्त्रेण सह देशस्य ९८ प्रतिशत-जनसंख्यां प्रति प्राप्तवती अस्ति।

समारोहे मुख्यातिथिरूपेण इलाहाबाद-उच्च-न्यायालयस्य न्यायमूर्तिः एन.सी.त्रिपाठी उपस्थितः आसीत्। विशिष्टातिथिरूपेण न्यायमूर्तिः सिद्धार्थ-वर्मा तथा न्यायमूर्तिः कुणाल-रवि-सिंहः मञ्चासीनौ आस्ताम्। विशेष-अतिथिषु महापौरः गणेश-केसरवानी, डॉ.राकेश-कुमार-सिंहः, शम्भूनाथ-इन्स्टीट्यूट-इत्यस्य निदेशकः, गरिमा-श्रीवास्तवः, एसबीआई-क्षेत्रीय-कार्यालयस्य मुख्य-प्रबन्धिका, अमित-मिश्रः, एसबीआई-कैण्ट-शाखायाः मुख्य-प्रबन्धकः च सम्मिलिताः आसन्।

आकाशवाणी-कलाकारः मनोज-गुप्तः अवदत् यत् कार्यक्रमस्य शुभारम्भः आकाशवाणी-प्रयागराजस्य उप-महानिदेशकः अभियांत्रिकी-क्लस्टर-प्रमुखः कमलेश-कुमार-गुप्तः दीप-प्रज्वलनं कृत्वा अकरोत्। ततः परं शम्भूनाथ-इन्स्टीट्यूट-ऑफ-इञ्जीनियरिङ्ग-एण्ड-टेक्नोलॉजी इत्यस्याः छात्रा खुशी-पाण्डेयः कथक-नृत्यं प्रस्तुतवती।

कार्यक्रम-प्रमुखा नेहा-गुप्ता स्वागत-भाषणे आकाशवाण्याः ऐतिहासिकी-यात्रा, उपलब्धयः तथा सांस्कृतिक-योगदानस्य विषये प्रकाशं क्षिप्तवती। डीजी कमलेश-कुमार-गुप्तः सामाजिक-चेतना, राष्ट्रिय-एकता तथा सांस्कृतिक-परम्परायाः संरक्षणे आकाशवाणी-प्रयागराजस्य भूमिकां प्रशंसितवान्।

कार्यक्रमे लोक-कलाकारः बाबूलाल-भँवरा स्वपक्षेण सह लोकगीतानि प्रस्तुत्य श्रोतॄन् आनन्दितवान्। आकाशवाणी-प्रयागराजस्य एकल-कलाकारः प्रिया-द्विवेदी मधुर-गीतं प्रस्तुतवती। भारतीय-वायु-सेनायाः म्यूजिकल-बैण्ड-इत्यनेनापि मनोहर-प्रस्तुतिः कृता।

अस्मिन् अवसरे सहायक-निदेशकः कार्यक्रमः धीरज-कुमारः, कार्यक्रम-अधिकारी प्रदीप-कुमार-मिश्रः, सुदरम-तिवारी, अभय-कान्त-तिवारी, अभिनव-प्रज्ञ-पाण्डेयः, मो.शमीमः तथा भूपेन्द्र-कुमार-मिश्रः उपस्थिताः आसन्। अभियांत्रिकी-प्रमुखः जयराम-सिंहः स्व-समूहेन सह तथा प्रशासनिक-अधिकारिणौ मो.शब्बीरः व्यवस्थां संभालितवन्तौ। संचालनं डॉ.धनञ्जय-चोपडा इत्यनेन कृतम्। कार्यक्रम-प्रमुखायाः नेहा-गुप्तायाः धन्यवाद-ज्ञापनेन सह कार्यक्रमः सम्पन्नः।

Hindusthan Samachar / Divya Ranjan