“वसुधैव कुटुम्बकम्”, “अनेकतायां एकता” च भारतीयसंस्कृतेः शक्तिः अस्ति — आचार्यः लोकेशः
नवदेहली, १९ मे-मासः (हि.स.)। नवदेहल्यां प्रथमवारं ‘भारतीय-सन्त-महापरिषदः’ इत्यस्य तत्त्वावधाने मङ्गलवासरे रामकृष्णमिशन इत्यत्र सन्तानाम् आचार्याणां च वैश्विक-महासमागमः अभवत्। अस्मिन् आयोजने अहिंसा विश्वभारती तथा विश्वशांतिकेंद्रम् इत्येतयोः संस्थाप
आचार्य लोकेशी के साथ देश-विदेश से आए धर्माचार्य एवं आध्यात्मिक नेता।


नवदेहली, १९ मे-मासः (हि.स.)। नवदेहल्यां प्रथमवारं ‘भारतीय-सन्त-महापरिषदः’ इत्यस्य तत्त्वावधाने मङ्गलवासरे रामकृष्णमिशन इत्यत्र सन्तानाम् आचार्याणां च वैश्विक-महासमागमः अभवत्। अस्मिन् आयोजने अहिंसा विश्वभारती तथा विश्वशांतिकेंद्रम् इत्येतयोः संस्थापकः आचार्यलोकेशेन सह देशविदेशेभ्यः समागताः त्रिशताधिकाः धर्माचार्याः आध्यात्मिक-नेतारश्च सहभागितां कृत्वा विश्वशान्तये, वैश्विक-समरसतायै, विश्वबन्धुत्वाय च सशक्त-संस्कारित-समाजनिर्माणस्य महासङ्कल्पम् अगृह्णन्।

अस्मिन् अवसरे ‘भारतीय-सन्त-महापरिषदः’ इत्यस्य आयोजकः हरिहरपुर-महास्वामी सच्चिदानन्द-सरस्वती, कैलाशाश्रमात् आचार्य-महामण्डलेश्वरः जयेन्द्रपुरी-स्वामी च शङ्कराचार्याणां, जगद्गुरूणां, आचार्याणां, महामण्डलेश्वराणां, देशस्य विभिन्नप्रदेशेभ्यः समागतानां साधुसन्तानां च स्वागतं कृतवन्तौ।

सभां सम्बोधयन् विश्वशान्तिदूतः आचार्यलोकेशः उक्तवान् यत् भारतीयसंस्कृतेः “वसुधैव कुटुम्बकम्” तथा “अनेकतायां एकता” इत्यादयः आदर्शाः अद्य सम्पूर्णविश्वस्य कृते मार्गदर्शकाः सन्ति। यदि मानवजातिः एतानि मूल्यानि अङ्गीकरोति तर्हि विश्वेशान्तेः, समानतायाः, सद्भावस्य, बन्धुत्वस्य च स्थापना सम्भवा भवेत्। तेन उक्तं यत् सन्तसमाजस्य दायित्वं केवलम् आध्यात्मिकमार्गदर्शनपर्यन्तं सीमितं नास्ति, अपितु मानवतायाः संयोजनं समाजस्य सकारात्मकदिशायां मार्गदर्शनं च अपि अस्ति।

रामकृष्णमिशन इत्यत्र आयोजिते अस्मिन् महासमागमे भारतीयसंस्कृतिं स्व-मूलाधाररूपेण मन्यमानानां विभिन्न-आस्थानां, दर्शनानां, परम्पराणां च सन्ताः प्रतिनिधयश्च सहभागिनः अभवन्। सम्मेलने निर्णयः कृतः यत् ‘भारतीय-सन्त-महापरिषदः’ इत्येतत् सुव्यवस्थित-प्रभावशालि-महासङ्घरूपेण विकसितं भविष्यति, यत् भारतीय-सांस्कृतिक-आध्यात्मिक-मूल्यानां संरक्षणसंवर्धनयोः कृते कार्यं करिष्यति।

अस्मिन् अवसरे ‘समान-अनुष्ठान-संहिता’ तथा ‘एकसमान-सामान्य-संस्कार-शिक्षा’ इत्येतयोः द्वयोः महत्त्वपूर्ण-योजनयोः संयुक्तरूपेण प्रारम्भस्य रूपरेखा अपि निर्मिता। ‘समान-अनुष्ठान-संहिता’ इत्यस्य उद्देश्यं विभिन्न-आस्थानां, परम्पराणां, दर्शनानां च मूल-आध्यात्मिक-मूल्यानि एकीकृत्य व्यवस्थितरूपेण समाजे प्रतिष्ठापयितुम् अस्ति। ‘एकसमान-सामान्य-संस्कार-शिक्षा’ इत्यस्य लक्ष्यं बालकानां यूनां च कृते मूल्याधारित-संस्कारशिक्षां प्रदाय सुसंस्कृत-नैतिक-आदर्श-समाजनिर्माणम् अस्ति।

अस्मिन् अवसरे रामजन्मभूमि-तीर्थ-क्षेत्रन्यासस्य कोषाध्यक्षः स्वामी-गोविन्ददेवगिरि-महाराजः, आचार्य-महासभायाः महासचिवः स्वामी-परमात्मानन्दः, आदिचुञ्चुनगिरि-मठस्य जगद्गुरुः स्वामी-निर्मलानन्दः, जैनधर्मात् आचार्यलोकेशः, सिखधर्मात् गुरुद्वारा-बंग्लासाहिब-इत्यस्य प्रमुख-जत्थेदारः भाई रञ्जीतसिंहः, बौद्धधर्मात् बौद्धभिक्षुः लामा, शङ्कराचार्यः राजराजेश्वरः, हिन्दूपरम्परायाः बहुसंख्यकाः साधुसन्ताश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan