अमित शाहस्य अध्यक्षतायाम् अद्य  बस्तरे मध्य क्षेत्रीय परिषदः उच्चस्तरीयोपवेशनम्
रायपुरम्, 19 मईमासः (हि.स.)।केन्द्रीयगृह-सहकारितामन्त्री अमितशाह त्रिदिवसीय-छत्तीसगढ़-भ्रमणे अस्ति। अद्य तस्य दौरस्य तृतीयः दिवसः अस्ति। शाह अद्य बस्तरस्य जगदलपुर-नगरे मध्य-क्षेत्रीय-परिषदः षड्विंशीगोष्ठ्याः अध्यक्षतां करिष्यति। अस्यां बैठके छत्तीस
अमित शाह फाइल फाेटाे


रायपुरम्, 19 मईमासः (हि.स.)।केन्द्रीयगृह-सहकारितामन्त्री अमितशाह त्रिदिवसीय-छत्तीसगढ़-भ्रमणे अस्ति। अद्य तस्य दौरस्य तृतीयः दिवसः अस्ति। शाह अद्य बस्तरस्य जगदलपुर-नगरे मध्य-क्षेत्रीय-परिषदः षड्विंशीगोष्ठ्याः अध्यक्षतां करिष्यति। अस्यां बैठके छत्तीसगढ़, मध्यप्रदेश, उत्तरप्रदेश तथा उत्तराखण्डस्य मुख्यमन्त्रिणः सहभागं करिष्यन्ति।

प्रथमवारं छत्तीसगढ़स्य बस्तर-प्रदेशे अस्य स्तरस्य परिषदः गोष्ठ्याः आयोजनं क्रियते।

उपवेशने राज्येषु परस्पर-समन्वयः, विधि-व्यवस्था, सीमाविवादः, परिवहनम्, विद्युत्, जलसंसाधनानि तथा आन्तरिकसुरक्षा इत्यादिषु विषयेषु चर्चा सम्भाव्यते।

उपवेशनं सहभागार्थं सोमवासरस्य रात्रौ मध्यप्रदेशस्य मुख्यमन्त्री मोहनयादवः तथा उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी छत्तीसगढ़म् आगतवन्तौ, ययोः मुख्यमन्त्री विष्णुदेवसायेन स्वागतं कृतम्। अस्मिन् अवसरे मुख्यमन्त्री सायेन उभाभ्यां मुख्यमन्त्रिभ्यां सह विविधेषु समसामयिकविषयेषु सार्थकचर्चा अपि कृता।

मुख्यमन्त्री साय उक्तवान् यत् पूर्वं नक्सली-हिंसायाः चुनौतीभिः संघर्षं कुर्वन् बस्तरः अद्य शान्तेः, सुरक्षायाः विकासस्य च नवीनां परिचयं निर्माति।

मुख्यमन्त्री सायः विश्वासं प्रकटितवान् यत् एषा उपवेशनाऽन्तर्राज्यीय-समन्वयाय नूतनां दृढतां प्रदास्यति तथा विकसितस्य, सुरक्षितस्य आत्मनिर्भरस्य च बस्तरस्य निर्माणस्य दिशि ऐतिहासिकीं भूमिकामपि निर्वहिष्यति।

उल्लेखनीयं यत् भ्रमणस्य द्वितीयदिने अर्थात् सोमवासरे अमितशाह उक्तवान् आसीत् यत् बस्तरस्य जनानां पञ्चाशद्वर्षेषु यःहानिः अभवत्, तस्य पूर्तिं वयं चत्वारि-पञ्च वर्षेषु करिष्यामः। तेन अग्रे उक्तं यत् यावत् बस्तरस्य विकासः न भविष्यति, तावत् अस्माकं संकल्पः अपूर्णः एव भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani