मुख्यमंत्री डॉ. यादवो महान् स्वतंत्रता सेनानी नीलम संजीव रेड्डी इत्येतस्य जयंत्यां विहितं नमनम्
भाेपालम्, 19 मईमासः (हि.स.)। भारतस्य पूर्वराष्ट्रपतिः तथा पूर्वलोकसभाध्यक्षः डॉ. नीलमसञ्जीवरेड्डी इत्यस्य अद्य मङ्गलवासरे जयन्ती अस्ति। मुख्यमन्त्री डॉ. मोहनयादवः पूर्वराष्ट्रपतिं नीलमसञ्जीवरेड्डी इत्येनं तस्य जयन्त्यां स्मृत्वा विनम्रं नमनं कृतव
मुख्यमंत्री डॉ. यादव ने महान स्वतंत्रता सेनानी नीलम संजीव रेड्डी की जयंती पर किया नमन


भाेपालम्, 19 मईमासः (हि.स.)।

भारतस्य पूर्वराष्ट्रपतिः तथा पूर्वलोकसभाध्यक्षः डॉ. नीलमसञ्जीवरेड्डी इत्यस्य अद्य मङ्गलवासरे जयन्ती अस्ति। मुख्यमन्त्री डॉ. मोहनयादवः पूर्वराष्ट्रपतिं नीलमसञ्जीवरेड्डी इत्येनं तस्य जयन्त्यां स्मृत्वा विनम्रं नमनं कृतवान्।

मुख्यमन्त्री डॉ. यादवः सामाजिकमाध्यमे ‘एक्स्’ इत्यत्र लेखं प्रकाशितवान् यत्र लिखितम् — “महान् स्वातन्त्र्यसेनानी तथा पूर्वराष्ट्रपतिः नीलमसञ्जीवरेड्डी महोदयस्य जयन्त्यां सादरं नमनं करोमि। तेन स्वातन्त्र्यआन्दोलने उत्साहपूर्वकं सहभागः कृतः। सः लोकतान्त्रिक-संवैधानिक-मूल्यानां प्रति आजीवनं समर्पितः आसीत्। तस्य जीवनं राष्ट्रसेवायै, सरलतायै, जनकल्याणाय च प्रेरणां ददाति।

---------------

Hindusthan Samachar / Dheeraj Maithani