प्रधानमंत्रिणो मोदिनो नेतृत्वे देशस्य खनन क्षेत्रे व्यापकः सुधारः - जीकिशनरेड्डी
नव दिल्ली/जयपुरम्, 19 मईमासः (हि.स)। केन्द्रीय-खनन-कोयलामन्त्री जी किशनरेड्डी मंगलवासरे उक्तवान् यत् प्रधानमन्त्रिणो नरेन्द्रमोदिनो नेतृत्वे देशे खननक्षेत्रे व्यापकसुधारः अभवत्। रेड्डी अत्र मुख्यमन्त्रिणः निवासस्थाने मुख्यमन्त्रिणा भजनलालशर्मणा सह
खनन परियोजनाओं की प्रगति का आकलन करते जी. किशन रेड्डी और भजन लाल शर्मा


खनन परियोजनाओं की प्रगति का आकलन करते जी. किशन रेड्डी और भजन लाल शर्मा


नव दिल्ली/जयपुरम्, 19 मईमासः (हि.स)। केन्द्रीय-खनन-कोयलामन्त्री जी किशनरेड्डी मंगलवासरे उक्तवान् यत् प्रधानमन्त्रिणो नरेन्द्रमोदिनो नेतृत्वे देशे खननक्षेत्रे व्यापकसुधारः अभवत्। रेड्डी अत्र मुख्यमन्त्रिणः निवासस्थाने मुख्यमन्त्रिणा भजनलालशर्मणा सह कोयलाविभागस्य उपवेशने सम्बोधयन् आसीत्।

जी किशनरेड्डी एक्स-माध्यमे प्रकाशिते संदेशे लिखितवान् — “राजस्थानस्य मुख्यमन्त्रिणा भजनलालशर्मणा सह राज्ये कोयला-खनन-परियोजनानां प्रगतिम् आकलयितुं, तेषां दक्षता-निरन्तरता-राजस्थानस्य सामाजिक-आर्थिकविकासे योगदानं च अधिकं वर्धयितुं उपायानां विषये विचारविमर्शार्थं व्यापकसमीक्षागोष्ठ्याः अध्यक्षता कृता।”

सः उक्तवान् यत् केन्द्रसर्वकारस्य दूरदर्शिनीतिभिः व्यापारसुगमतया च महत्त्वपूर्णखनिजक्षेत्रे अन्वेषण-, नीलाम-, उत्पादन-प्रक्रियासु गतिः आगता। सः अवदत् यत् राजस्थाने महत्त्वपूर्णखनिजानां विशालः भण्डारः उपलब्धः अस्ति। रक्षा-, ऊर्जा-, कृषि-, सौर-, वाहनादिषु विभिन्नक्षेत्रेषु महत्त्वपूर्णखनिजानां वर्धमानां मागं पूरयितुं राजस्थानस्य सामर्थ्यम् अस्ति।

केन्द्रीय-खनन-कोयलामन्त्री उक्तवान् यत् मुख्यमन्त्रिणः शर्मणः सक्रियचिन्तनेन राजस्थानं खननक्षेत्रे तीव्रतया अग्रे गच्छति। राज्ये खनिजसंसाधनानां वैज्ञानिकदोहनेन, निवेशानुकूलवातावरणेन, पारदर्शिनीतिभिश्च राजस्थानं खननस्य प्रमुखकेन्द्ररूपेण उदेति।

सः अवदत् यत् केन्द्र-राज्यसर्वकारौ परस्परसमन्वयेन खननसम्बद्धानां सर्वेषां विषयाणां समयबद्धसमाधानं कुरुतः, येन निवेशे उत्पादनस्य च वृद्धिः भवेत्।

---------------

Hindusthan Samachar / Dheeraj Maithani