Enter your Email Address to subscribe to our newsletters

सहरसा-नगरम्, १९ मे-मासः (हि.स.)। पूर्वनिर्धारित-कार्यक्रमानुसारं मङ्गलवासरे सहरसा-जनपदान्तर्गतं प्रखण्डानुसारं १५ स्थलेषु जनपदाधिकारी, उप-विकास-आयुक्तः, नगर-आयुक्तः, अपर-समाहर्ता तथा अन्ये वरिष्ठ-पदाधिकारीणां नेतृत्वे आयोजितस्य सहयोग-शिविरस्य माध्यमेन आवेदकेभ्यः लाभार्थिभ्यश्च आवेदन-निष्पादनं योजना-लाभ-सम्बद्धानि प्रमाणपत्राणि च उपस्थित-गणमान्यैः प्रदत्तानि।
अस्मिन्नेव क्रमे शिक्षामन्त्रिणा सह जनपद-प्रभारी-मन्त्री मिथिलेश-तिवारी, जनपदाधिकारी दीपेश-कुमारः, आरक्षक-अधीक्षकः हिमांशुः तथा अन्ये गणमान्याः कहरा-प्रखण्डान्तर्गत-बेल्हापट्टी-पञ्चायते आयोजितस्य सहयोग-शिविरस्य शुभारम्भं दीप-प्रज्वलनेन अकुर्वन्। शिविरे बहुसंख्यया स्थानीय-ग्रामीणाः, जन-प्रतिनिधयः, महिला-समूहानां सदस्याः तथा विविध-विभागानां अधिकारिणः उपस्थिताः आसन्।
उक्तावसरे प्रभारी-मन्त्रिणा सहयोग-शिविर-आयोजनस्य महत्त्वं वर्णयता उक्तं यत् क्रियान्वित-सर्वकारीय-योजनानां जनहित-सम्बद्ध-कार्याणां च सूचनानां समयबद्ध-निष्पादनमेव शिविर-आयोजनस्य मुख्य-उद्देश्यम् अस्ति।
तेन उक्तं यत् राज्य-सर्वकारः योजनानां सहज-सुचारु-पारदर्शी-क्रियान्वयनाय जन-समस्यानां सम्यक्-निवारणाय च प्रतिबद्धः अस्ति। अस्यैव लक्ष्यस्य प्राप्तये पञ्चायतानुसारं शिविराणाम् आयोजनं क्रियते। एतेषां माध्यमेन सूचनानां ग्रहणेन सह तेभ्य: नियमानुकूल-निवारणाय सर्वोच्च-प्राथमिकता प्रदीयते।
जनपदाधिकारी दीपेश-कुमारः अवदत् यत् सहयोग-शिविर-सम्बद्ध-आवेदनानां समयबद्ध-निवारणार्थं जनपद-प्रशासनेन निरन्तरं कार्यवाही क्रियते। सम्बन्धित-विभागानां समन्वित-प्रयत्नानां फलस्वरूपं निर्धारित-समय-सीमायाः पूर्वमेव प्रायः ८५ प्रतिशत-आवेदनानां निष्पादनं सम्पन्नं जातम्, शेष-लम्बित-आवेदनानां निष्पादनार्थं कार्यवाही प्रचलति।
उक्तावसरे प्रभारी-मन्त्री, जनपदाधिकारी तथा आरक्षक-अधीक्षकः ५७ लाभार्थिभ्यः आवेदकेभ्यश्च यथा— रामचन्द्र-यादवः, साजन-रामः, सरस्वती-कुमारी, आदर्श-कुमारः, सत्यनारायण-भगतः, राजेश्वर-यादवः, आञ्चल-कुमारी इत्यादिभ्यः आवेदन-निष्पादन-योजना-लाभ-सम्बद्धानि प्रमाणपत्राणि प्रदत्तवन्तः।
अस्मात् पूर्वं प्रभारी-मन्त्रिणा जनपदाधिकारिणा च सहयोग-शिविर-परिसरे विविध-विभागैः स्थापितानां वितानानां निरीक्षणं कृत्वा कार्य-सम्बद्धं विवरणं गृहीतम्।
ज्ञातव्यं यत् शिविर-आयोजन-क्रमे विविध-विभागैः वितानानि संस्थाप्य योजनासम्बद्धा सूचना प्रदत्ता तथा आवेदनानि सूचनाश्च स्वीकृताः। अनेक-प्रकरणेषु स्थले एव आवेदनानां निष्पादनमपि कृतम्, येन सामान्य-जनैः हर्षः व्यक्तीकृतः।
शिविरे सामाजिक-सुरक्षा-कोषाङ्गेन सञ्चालितानां विविध-पेन्शन-योजनानां, स्वास्थ्य-विभागेन आयुष्मान-भारत-योजनायाः, टीकाकरणस्य, मातृ-शिशु-स्वास्थ्य-सेवानां स्वास्थ्य-परीक्षणस्य च सम्बन्धित-विवरणानि सहभाग-कृतानि। पशुपालन-विभागेन पशुधन-विकासस्य, पशु-टीकाकरणस्य तथा पशुपालकानां कृते सञ्चालित-योजनानां सूचना अपि प्रदत्ता।
Hindusthan Samachar / Divya Ranjan