Enter your Email Address to subscribe to our newsletters


- जिलाधिकारिणः प्रश्नानामददात्उत्तरम्
देवरिया, 19 मईमासः (हि.स.)।
उत्तरप्रदेशस्य देवरियाजनपदे जिलाधिकारिणो मधुसूदनहुल्गी इत्यस्य संवेदनशीलकार्यशैली मङ्गलवासरे आयोजिते जनतादर्शनकार्यक्रमे दृष्टिगोचरा अभवत्। जनतादर्शने निवेदनं कर्तुं प्राप्तायाः असहायायाः महिलायाः समस्या श्रुत्वा जिलाधिकारी तस्याः पुत्रस्य उत्साहवर्धनं कृत्वा तं शिक्षायाः प्रति प्रेरितवान्।
तरकुलवाविकासखण्डस्य सोनहुलारामनगरग्रामनिवासिनी प्रभावतीदेवी स्वपुत्रेण नीरजेन सह जनतादर्शने जिलाधिकरिणः समीपम् आगता। तया प्रार्थनापत्रं दत्त्वा निवेदितं यत् पार्श्ववर्तिजनैः तेषाम् आवागमनमार्गः अवरुद्धः कृतः, येन परिवारः अत्यधिकां समस्याम् अनुभवन्ति। प्रकरणं गम्भीरतया स्वीकरोति स्म जिलाधिकारी सम्बन्धितोपजिलाधिकरिणं तहसीलदारं च तत्कालम् आवश्यककार्यवाहीं कृत्वा समस्यासमाधानस्य निर्देशान् दत्तवान्।
अस्मिन् एव समये जिलाधिकरिणः दृष्टिः महिलायाः पुत्रे नीरजे पतिता। संभाषणे नीरजेन उक्तं यत् सः पञ्चमकक्षायाः छात्रः अस्ति तथा शासकीयविद्यालये अध्ययनं करोति। जिलाधिकारी तस्मै गणितविषयकान् कतिपयान् प्रश्नान् अपृच्छत्, येषां नीरजेन सम्यक् उत्तराणि दत्तानि। एतेन प्रसन्नः भूत्वा जिलाधिकारी तस्य मनोबलं वर्धितवान् तथा पूर्णलग्नतया मनोयोगेन च अध्ययनं कर्तुं प्रेरितवान्। तेन उक्तं यत् शिक्षा एव जीवने अग्रे गन्तुं सर्वाधिकमहत्त्वपूर्णं साधनम् अस्ति तथा अस्याः माध्यमेन मनुष्यः समाजस्य देशस्य च प्रगत्यां योगदानं दातुं शक्नोति।
जनतादर्शने सदरतहसीलक्षेत्रस्य मुंडाडीहग्रामनिवासी असगरअली अपि भूमिविवादसम्बद्धं प्रार्थनापत्रं दत्तवान्। जिलाधिकारी सम्बन्धितोपजिलाधिकरिणं प्रकरणस्य परीक्षणं कृत्वा तत्कालं प्रतिवेदनं प्रस्तुतुं निर्देशान् दत्तवान्।
जिलाधिकारी सर्वान् उपजिलाधिकरिणः निर्देशितवान् यत् ते स्वस्वक्षेत्रेषु राजस्वकर्मचारिणां लेखपालानां च कार्येषु प्रभाविनिरीक्षणं कुर्वन्तु। तेन उक्तं यत् अनियमिततायाः अथवा शिकायतायाः प्राप्तौ सम्बन्धितकर्मचारिणां विरुद्धं कठोरकार्यवाही करिष्यते।
-----------
Hindusthan Samachar / Dheeraj Maithani