Enter your Email Address to subscribe to our newsletters

जयपुर-नगरम्, १९ मे-मासः (हि.स.)। राजस्थान-सर्वकारस्य प्रतिष्ठिते हरीश-चन्द्र-माथुर-राजस्थान-राज्य-लोक-प्रशासन-संस्थाने जयपुर-नगरस्य बी.एस.-मेहता-सभागारे अद्य नागरिक-आरक्षक-सेवानां नवनियुक्त-प्रशिक्षु-अधिकारिणां कृते विशेष-संवाद-सत्रस्य आयोजनं कृतम्।
अस्मिन् गरिमामये कार्यक्रमे प्रख्याता हस्तशिल्प-रचनाकारिणी, सामाजिक-कार्यकर्त्री वैश्विक-वक्त्री च डॉ.-रूमा-देवी मुख्य-वक्तृरूपेण सहभागिनी अभवत्।
अस्मिन् सत्रे संस्थाने सेवाकालीन-प्रशिक्षणं प्राप्नुवन्तः भारतीय-प्रशासनिक-सेवा, राजस्थान-प्रशासनिक-सेवा, राजस्थान-आरक्षक-सेवा तथा राजस्थान-लेखा-सेवायाः प्रायः ४०० प्रशिक्षु-अधिकारिणः अत्यन्त-उत्साहेन सहभागिन: अभवन्।
संवाद-सत्रस्य समये डॉ.रूमा-देवी स्वस्य शून्यात् शिखर-पर्यन्तां प्रेरणादायिनीं संघर्षपूर्णां च जीवन-यात्रां वर्णितवती।ताभिः उक्तं यत् कथं थार-प्रदेशस्य सुदूर-ग्रामीण-परिवेशस्य प्रतिकूल-परिस्थितीनां, सामाजिक-रूढिवादितायाः तथा अत्यल्प-संसाधनानामपि मध्ये ताभिः साहसेन अग्रे गत्वा सहस्रशः ग्रामीण-महिलाः हस्तशिल्पेन, पारम्परिक-कलया, कौशल-विकासेन तथा स्वरोजगारेण सह सम्बद्धाः कृत्वा आत्मनिर्भराः निर्मिताः।
युवा-अधिकारिणः सम्बोधयन्ती डॉ.रूमा-देवी अवदत् यत् समाजे वास्तविकं स्थायीं च परिवर्तनं केवलं नीतिभिः न, अपितु धरातले संवेदनशीलतया, निरन्तर-प्रयत्नैः समर्पणेन च एव सम्भवति।
ताभिः ग्रामीण-परिवेशे महिलानां स्वास्थ्य, शिक्षा, सामाजिक-समस्या: तासां समाधानार्थं कृताः स्व-संघर्षाश्च विस्तरेण निरूपिताः। सहैव प्रशिक्षु-अधिकारिणः प्रति आह्वानं कृतं यत् ते पूर्ण-संवेदनशीलतया समाजस्य अन्तिम-पङ्क्तौ स्थित-जनपर्यन्तं विकासस्य लाभं प्रापयन्तु, येन प्रशासनिक-तन्त्रस्य प्रति जनानां विश्वासः अधिकं सुदृढः भवेत्।
कार्यक्रमस्य विशेष-आकर्षणरूपेण भारत-सर्वकारस्य फिल्म्स-डिवीजन-संस्थया रूमा-देव्याः जीवनस्य सामाजिक-कार्याणां च आधारे निर्मितायाः मर्मस्पर्शिन्याः वृत्तचित्र-चलच्चित्रस्य प्रदर्शनमपि कृतम्। एतया लघु-चलच्चित्रेण सभागारे उपस्थिताः सर्वे अधिकारिणः गम्भीरतया प्रेरिताः अभवन्।
सत्रस्य अन्तिम-चरणे सजीव-प्रश्नोत्तर-सत्रस्य आयोजनम् अभवत्, यस्मिन् युवा-प्रशिक्षु-अधिकारिणः महिला-सशक्तिकरणम्, ग्रामीण-रोजगार-सृजनम्, स्वयं-सहायता-समूहानां सुदृढीकरणम् तथा महिला-नेतृत्व-क्षमतायाः सम्बन्धिनः व्यवहारिक-प्रश्नान् अपृच्छन्। डॉ.-रूमा-देवी स्वस्य धरातलीय-अनुभवानां आधारेण सर्वासां जिज्ञासानां समाधानम् अत्यन्त-सहजतया कृतवती।
संस्थानस्य वरिष्ठ-अधिकारिणः तथा पाठ्यक्रम-निदेशिका डॉ.प्रभा-व्यास, अतिरिक्त-निदेशिका च डॉ.रूमा-देव्याः जन-कल्याणकारी-कार्याणां भूरिशः प्रशंसाम् अकुरुताम्।
ताभ्याम् उक्तं यत् रूमा-देव्याः अनुभवः, अदम्य-साहसम्, सफलता-कथा च प्रशासनिक-सेवासु आगच्छद्भ्यः युवा-अधिकारिभ्यः उत्कृष्ट-प्रेरणास्रोत-रूपेण कार्यं करिष्यति, येन ते स्व-कार्य-क्षेत्रे अधिक-संवेदनशीलाः परिणामोन्मुखाश्च भवितुं शक्नुवन्ति।
Hindusthan Samachar / Divya Ranjan