Enter your Email Address to subscribe to our newsletters

मुरादाबादनगरम्, १९ मे-मासः (हि.स.)। उत्तरप्रदेशस्य मुरादाबाद-जनपदे ग्रामान् स्वच्छान्, आदर्शान् तथा विवाद-रहितान् कर्तुं मुरादाबाद-प्रशासनेन नूतनः सरलश्च प्रयत्नः आरब्धः। प्रशासनस्य मतम् अस्ति यत् केवलं सर्वकारीय-स्वच्छता-कर्मचारिभिः सम्पूर्ण-ग्रामस्य स्वच्छता सम्भवा नास्ति, अस्य कृते ग्रामवासिनां सहयोगः अत्यावश्यकः अस्ति। एतदेव दृष्ट्वा ‘कूटकात् काञ्चनम्’ (वेस्ट-टू-वेल्थ) इति अभियानम् आरब्धम्, यस्य अन्तर्गतं गृह-गृहात् कूटकस्य उत्थापनाय प्रत्येक-परिवारात् प्रतिदिनं केवलम् एकं रूप्यकं (अर्थात् मासे त्रिंशत् रूप्यकाणि) सहयोगरूपेण याच्यते।
जनपदाधिकारी डॉ.राजेन्द्र-पैंसिया इत्यनेन ठाकुरद्वारा-तहसीलस्य वीरूवाला-ग्रामः स्वीकृतः। जनपदाधिकारी मङ्गलवासरे स्वस्य स्वीकृत-ग्रामं प्राप्तवान् तथा तत्रत्य-व्यवस्थाः आवश्यकताश्च विषये ग्रामजनैः सह संवादं कृतवान्।
जनपदाधिकारी उक्तवान् यत् भविष्ये सर्वकारस्य योजना अस्ति यत् प्रत्येकं ग्रामः स्व-विकास-कार्येषु आत्मनिर्भरः भवेत्। भविष्यकाले ग्रामेभ्यः सर्वकारीय-अनुदानं तदैव प्रदास्यते, यदा ग्राम-पञ्चायतयः स्वपक्षतः अपि किञ्चित् आयं (राजस्वम्) अर्जयिष्यन्ति। अग्रिमे काले एषः नियमः यदा प्रवर्तिष्यते, तदा ग्रामवासिनाम् उपरि सहसा पञ्चाशत् अथवा शत-रूप्यकाणां मासिक-भारः न पततु, अतः अद्यैव प्रतिदिनम् एक-रूप्यकस्य सरलः व्यावहारिकश्च उपायः निर्धारितः। अस्य एक-रूप्यकस्य सहयोगेन ई-त्रिचक्रिका-माध्यमेन गृहात् गृहात् कूटकम् उत्थाप्यते तथा ग्रामस्य कूटक-निस्तारण-केन्द्राणि सुचारुरूपेण सञ्चालितानि भविष्यन्ति।
प्रतिशुक्रवासरे निरीक्षणं भविष्यति, ‘ग्राम-कुल’ समितिः च निर्मास्यते
जनपदाधिकारी डॉ.राजेन्द्र-पैंसियस्य निर्देशानुसारम् अधुना प्रत्येकं शुक्रवासरे प्रातःसायंकालयोः खण्डस्य द्वे ग्राम-पञ्चायते निरीक्षिते भविष्यतः। प्रशासनस्य विशेष-केन्द्रणं तेषु ग्रामेषु अस्ति, ये विकासात् वियुक्ताः सन्ति। ग्रामस्य विकासाय नूतना ‘ग्राम-कुल’समितिः अपि निर्मीयते। अस्याम् पञ्चायत-सचिवः, लेखपालः, पञ्चायत-सहायकः, रोजगार-सेवकः, स्वयंसहायता-समूहस्य महिलाः (यथा धनागार-सखी) तथा ग्रामस्य वृद्धाः सम्मानित-जनाश्च समावेश्यन्ते। प्रधानमन्त्रिणः आह्वानानुसारं ग्रामवासिभ्यः सप्ताहे न्यूनातिन्यूनं द्वे होरे स्वच्छतायै ‘श्रमदानम्’ कर्तुं शपथापि प्रदत्ता।
Hindusthan Samachar / Divya Ranjan