राज्यपालो नैनीताले विकास कार्याणि, पर्यटनं वनाग्निरोधम् अजानात्
नैनीतालम्, 19 मईमासः (हि.स.)। उत्तराखण्डस्य राज्यपालः सेवानिवृत्त-लेफ्टिनेन्ट्-जनरल् गुरमीतसिंहः मङ्गलवासरे लोकभवन-नैनीताले नैनीतालस्य मुख्यविकासाधिकारी अरविन्दकुमारपाण्डेयेन सह शिष्टाचारभेटायां जनपदे सञ्चालितानां विकासकार्यमाणां, पर्यटनगतिविधीना
राज्यपाल से शिष्टाचार भेंट करते सीडीओ।


नैनीतालम्, 19 मईमासः (हि.स.)।

उत्तराखण्डस्य राज्यपालः सेवानिवृत्त-लेफ्टिनेन्ट्-जनरल् गुरमीतसिंहः मङ्गलवासरे लोकभवन-नैनीताले नैनीतालस्य मुख्यविकासाधिकारी अरविन्दकुमारपाण्डेयेन सह शिष्टाचारभेटायां जनपदे सञ्चालितानां विकासकार्यमाणां, पर्यटनगतिविधीनां नवाचाराणां च विषये सूचनांप्राप्तवान्। मुख्यविकासाधिकाऱिणा राज्यपालाय अवगतं कृतं यत् नैनीतालस्य परिचयः तस्य झीलाभिः अस्ति तथा तासां सौन्दर्यीकरणाय स्वच्छतायै च विशेष-अभियानानि सञ्चाल्यन्ते।

तेन उक्तं यत् स्वयं-सहायता-समूहानां महिलाभिः निर्मितानां उत्पादानां विपणनव्यवस्था उपलब्धा कर्तुं होटल्-व्यवसायिभिः सह समन्वयं स्थाप्य मार्केट्-लिङ्केज् विकसितानि सन्ति। सहैव युवानः स्वरोजगारे कौशलविकासे च सम्बद्धाः भवन्तु इति हेतोः विविधप्रशिक्षणकार्यक्रमाः सञ्चाल्यन्ते। राज्यपालेन निर्देशाः दत्ताः यत् नैनीताले नवीन-पर्यटनस्थलानां विकासः क्रियताम् तथा पर्यटकान् अधिककालपर्यन्तं आकर्षयितुं विविधगतिविधीनां संवर्धनं क्रियताम्। तेन स्वयं-सहायता-समूहानां उत्पादानां उत्तम-पैकेजिङ्ग्, ब्राण्डिङ्ग् तथा डिजिटल्-विपणनस्य विषये विशेषध्यानं दातुं कथितम्।

अस्मिन् अवसरे प्रभागीयवनाधिकारी आकाशगङ्गवारः वनाग्निनियन्त्रणस्य मानव-वन्यजीव-संघर्षस्य च विषये जानकारीं दत्त्वा उक्तवान् यत् प्रभावितक्षेत्रेषु सोलर्-फेन्सिङ्ग् तथा अन्यसुरक्षोपायाः उपलब्धाः क्रियन्ते। तेन उक्तं यत् वनाग्निनिवारणार्थं पीरूल-संग्रहण-अभियानं सञ्चाल्यते, यस्य अन्तर्गतं स्थानीयजनानां प्रति किलोग्रामं दशरूप्यकाणां प्रोत्साहनराशिः प्रदीयते। राज्यपालेन पिरूल-प्रबन्धनस्य वनाग्निनियन्त्रणस्य च प्रयासानां प्रशंसा कृता तथा पर्यावरणसंरक्षणे, जनजागरूकतायां स्थानीयसहभागितायां च वृद्धिं कर्तुं बलं दत्तम्।

Hindusthan Samachar / Dheeraj Maithani