ग्राम-विकास-चौपालः ग्रामीण-परिवर्तनस्य महान् मञ्चः अभवत्, मुख्यमन्त्री ग्रामं ग्रामं गत्वा जनतायाः वचनं शृणोति
जयपुरनगरम्, १९ मे-मासः (हि.स.)। मुख्यमन्त्रिणः भजनलाल-शर्मणः प्रयत्नेन आरब्धः ग्राम-विकास-चौपालः अधुना राजस्थाने ग्रामीण-विकासस्य जन-संवादस्य च प्रभावी-मञ्चरूपेण परिवर्तितः अस्ति। मुख्यमन्त्री स्वयं ग्रामान् गत्वा ग्रामीणैः सह प्रत्यक्ष-संवादं करोत
फाइल


जयपुरनगरम्, १९ मे-मासः (हि.स.)। मुख्यमन्त्रिणः भजनलाल-शर्मणः प्रयत्नेन आरब्धः ग्राम-विकास-चौपालः अधुना राजस्थाने ग्रामीण-विकासस्य जन-संवादस्य च प्रभावी-मञ्चरूपेण परिवर्तितः अस्ति। मुख्यमन्त्री स्वयं ग्रामान् गत्वा ग्रामीणैः सह प्रत्यक्ष-संवादं करोति तथा तत्रैव समस्यासमाधानार्थं निर्देशान् प्रदाय “ग्रामोदयतः अन्त्योदयः” इति संकल्पं भूमितले साकारयति।

प्रदेशस्य अद्यावधि पञ्च-जनपदेषु आयोजितेषु चौपालेसु मुख्यमन्त्री ग्रामीणानां मध्ये प्राप्तवान् तथा चतुर्षु ग्रामेषु रात्रि-विश्रामं कृत्वा सामान्य-जनात् प्रत्यक्ष-अभिप्रायं गृहीतवान्। चौपालेसु पेय-जलम्, शिक्षा, स्वास्थ्यं, मार्गाः, विद्युत् तथा सामाजिक-सुरक्षा इत्यादिषु विषयेषु ग्रामीणानां निवेदनानि श्रुतानि। बहुषु प्रकरणेषु मुख्यमन्त्रिणा तत्कालं निर्णयं कृत्वा स्थानीय-विकास-कार्याणां अनुमतिः अपि प्रदत्ता। सीकर-जनपदस्य जाजोद-ग्रामे छात्रीणां याचनया विद्यालये विज्ञान-संकायस्य उद्घाटनस्य निर्णयः अथवा अजमेर-जनपदस्य कड़ेल-ग्रामे प्राथमिक-स्वास्थ्य-केन्द्रस्य सामुदायिक-स्वास्थ्य-केन्द्ररूपेण क्रमोन्नयनस्य घोषणा, ग्राम-विकास-चौपालानां माध्यमेन कृतैः त्वरित-निर्णयैः ग्रामीणेषु विश्वासः वर्धितः।

अधुना मुख्यमन्त्रिणः अग्रिमः प्रवासः वागड़-क्षेत्रे भविष्यति। २० मे-मासे मुख्यमन्त्री बांसवाड़ा-जनपदस्य कुशलगढ़-क्षेत्रस्थितं चुड़ादा-ग्रामं गमिष्यति। तत्र ग्रामीणैः सह संवादं कृत्वा रात्रि-विश्रामम् अपि करिष्यति। अनन्तर-दिने २१ मे-मासे प्रातःकाले मुख्यमन्त्री ग्रामस्य पद-भ्रमणं कृत्वा गृहं गृहं गत्वा जनैः सह मिलित्वा योजनानां भूमितल-स्थितिं ज्ञास्यति। ततः परं मुख्यमन्त्री बांसवाड़ा-कलेक्ट्रेट्-इत्यत्र जनपद-स्तरीय-अधिकारीणां सभां कृत्वा विकास-योजनानां समीक्षां करिष्यति। तथा एव २१ मे-मासे मुख्यमन्त्री डूंगरपुर-जनपदस्य धम्बोला-ग्रामं गमिष्यति, यत्र ग्राम-विकास-चौपालः, रात्रि-विश्रामः तथा परदिने प्रातः सामान्य-जनैः सह संवादस्य कार्यक्रमः प्रस्तावितः अस्ति।

सर्वकारस्य कथनम् अस्ति यत् ग्राम-विकास-चौपालः केवलम् औपचारिक-कार्यक्रमः न, अपितु ग्रामीण-समस्यानां समाधानस्य सक्रियं माध्यमं भवति। मुख्यमन्त्री अद्यावधि प्रतापगढ़स्य बम्बोरी, सीकरस्य जाजोद, अजमेरस्य कड़ेल, जालोरस्य पंसेरी तथा जयपुरस्य ठिकरिया-ग्रामेषु चौपालाः कृतवान्। अस्मिन् मध्ये मुख्यमन्त्रिणा प्रधानमन्त्रिणः नरेन्द्र-मोदिनः ईंधन-संरक्षणस्य आह्वानम् अनुसृत्य स्वकीय-समूहे वाहनानां संख्या न्यूनीकृता। तेन सह सः अधुना विविध-प्रवासेषु विद्युत्-वाहनस्य उपयोगं करोति। वागड़-क्षेत्रस्य आगामि-प्रवासेऽपि मुख्यमन्त्री ईवी-वाहनेन एव यात्रां करिष्यति।

Hindusthan Samachar / Divya Ranjan