गुवाहाट्यां शुभारब्धा वाटर मेट्रो सेवा- सर्बानंद सोनोवालः
गुवाहाटी, 19 मईमासः, (हि.स.)। केन्द्रीयपत्तन-पोतपरिवहन-जलमार्गमन्त्री सर्बानन्दसोनोवालः उक्तवान् यत् गुवाहाटीनगरं केन्द्रसरकारस्य महत्त्वाकाङ्क्षिण्याः वाटर्-मेट्रो-परियोजनायाः प्रथमचरणाय आधिकारिकरूपेण चयनितम् अस्ति। सोनोवालः मङ्गलवासरे गुवाहाटी
बंगाईगांव विधानसभा क्षेत्र में विधानसभा उपचुनाव के दौरान चुनावी सभा को संबोधित करते हुए केंद्रीय मंत्री सर्बानंद सोनोवाल की तस्वीर।


गुवाहाटी, 19 मईमासः, (हि.स.)।

केन्द्रीयपत्तन-पोतपरिवहन-जलमार्गमन्त्री सर्बानन्दसोनोवालः उक्तवान् यत् गुवाहाटीनगरं केन्द्रसरकारस्य महत्त्वाकाङ्क्षिण्याः वाटर्-मेट्रो-परियोजनायाः प्रथमचरणाय आधिकारिकरूपेण चयनितम् अस्ति।

सोनोवालः मङ्गलवासरे गुवाहाटीनगरस्य एकस्मिन् होटले ब्रह्मपुत्रबोर्डस्य बैठकानन्तरं पत्रकारैः सह वार्तालापं कुर्वन् आसीत्। तेन उक्तं यत् कोच्चि-वाटर्-मेट्रो-परियोजनायाः आदर्शे विकसितं एतत् पर्यावरणानुकूलं जलपरिवहनतन्त्रं नगरीययातायातं सुगमं कर्तुं मार्गजामस्य न्यूनीकरणे च महत्त्वपूर्णां भूमिकां निर्वहिष्यति। परियोजनायाः प्रथमचरणे गुवाहाटी-नगरस्य अतिरिक्तं श्रीनगरम्, पटनम्, वाराणसी, अयोध्या तथा प्रयागराजः अपि समाविष्टाः सन्ति। अपरतः असमराज्यस्य तेजपुरम् तथा डिब्रूगढनगरं द्वितीयचरणाय प्रस्तावितम् अस्ति।

केन्द्रीयमन्त्रालयेन हालैव ड्राफ्ट्-नेशनल्-वाटर्-मेट्रो-पॉलिसी-२०२६ प्रकाशितम्, यस्य उद्देश्यं जलमेट्रो-परियोजनासु पोतानां रूपरचना, चार्जिङ्-सुविधाः तथा सुरक्षातन्त्रेषु एकरूपतां आनयितुम् अस्ति। अस्यां नीतौ विद्युत्चालित-हाइब्रिड्-फेरी-सेवानां विशेषप्राथमिकता प्रदत्ता अस्ति, येन पर्यावरणसंरक्षणस्य प्रोत्साहनं भवेत्।

इनलैण्ड्-वॉटरवेज्-अथॉरिटी-ऑफ्-इण्डिया इत्यनेन देशस्य अष्टादशस्थानेषु व्यवहार्यताअध्ययनार्थं कोच्चि-मेट्रो-रेल्-लिमिटेड इत्यस्मै उत्तरदायित्वं प्रदत्तम् आसीत्। गुवाहाटीनगरस्य कृते निर्मितायाः व्यवहार्यताप्रतिवेदनस्य समीक्षा कृत्वा तस्य अनुमोदनमपि प्रदत्तम्।

सरकारस्य मतम् अस्ति यत् एषा परियोजना पारम्परिक-मेट्रो-रेल्-प्रणालीभ्यः अपेक्षया अधिका किफायती सिद्धा भविष्यति, यतः अस्याम् पूर्वमेव उपलब्धानां नौगम्य-जलमार्गाणां उपयोगः भविष्यति तथा न्यूनतर-आधारसंरचनायाः आवश्यकता भविष्यति। अस्याः परियोजनायाः माध्यमेन गुवाहाटीनगरे नगरीयसंपर्कव्यवस्थायाः नूतना गतिः प्राप्ता भविष्यतीति अपेक्षा अस्ति।

----------------

Hindusthan Samachar / Dheeraj Maithani