केंद्रीय गृहमंत्रिणोऽध्यक्षतायां मध्य क्षेत्रीय परिषदः उपवेशने बहुषु महत्वपूर्णनिर्णयेषु लग्ना मुद्रा
जगदलपुरम्, 19 मईमासः (हि.स.)।छत्तीसगढ़स्य बस्तरजिलामुख्यालये जगदलपुरनगरे प्रथमवारं केन्द्रीयगृहमन्त्रिणोऽमितशाहस्य अध्यक्षतायाम् आयोजितायां मध्य-क्षेत्रीय-परिषदः षड्विंशतितमायां उच्चस्तरीयोपवेशने मंगलवासरे अपराधनियन्त्रणाय, महिलासुरक्षायै, कुपोषणनि
केंद्रीय गृहमंत्री की अध्यक्षता में मध्य क्षेत्रीय परिषद की बैठक


जगदलपुरम्, 19 मईमासः (हि.स.)।छत्तीसगढ़स्य बस्तरजिलामुख्यालये जगदलपुरनगरे प्रथमवारं केन्द्रीयगृहमन्त्रिणोऽमितशाहस्य अध्यक्षतायाम् आयोजितायां मध्य-क्षेत्रीय-परिषदः षड्विंशतितमायां उच्चस्तरीयोपवेशने मंगलवासरे अपराधनियन्त्रणाय, महिलासुरक्षायै, कुपोषणनिवारणाय च महत् कार्ययोजनापत्रं निर्मितम्। एतेन सह अन्येषु बहुषु महत्त्वपूर्णनिर्णयेषु अपि अनुमोदनं दत्तम्।

अस्मिन् उपवेशने सर्वेषां राज्येषां मध्ये गुप्तसूचनानां सहकरणाय तथा सीमावर्तिषु जिल्लेषु अपराधनियन्त्रणार्थं उत्तमपुलिसव्यवस्था उच्चप्रौद्योगिकी-शासनव्यवस्था च विषये सहमतिर्जाता। सुरक्षया सह आदिवासीक्षेत्राणां कायाकल्पस्य विषये अपि विशेषचर्चा अभवत्। बस्तरप्रदेशे तस्य समीपवर्तिषु आदिवासीक्षेत्रेषु च मार्ग-, रेल-, दूरसञ्चार-संयोजनस्य शीघ्रवृद्धेः निर्णयः कृतः।

अतिरिक्तरूपेण एतेषु क्षेत्रेषु शिक्षायाः, स्वास्थ्यस्य, महिलापीडन-बलात्कारादीनां गम्भीरप्रकरणानां च त्वरितन्यायसुनिश्चित्यर्थं कठोरपदानि स्वीकर्तुं रणनीतिः निर्मिता।

परिषदः उपवेशनानन्तरं बस्तरसहितेषु मध्य-क्षेत्रीय-राज्येषु विकासपरियोजनानां नूतना गतिः प्राप्तुं शक्नोति।

अस्मिन् महत्त्वपूर्णोपवेशने छत्तीसगढ़स्य मुख्यमन्त्री विष्णुदेवसायः, उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी, उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः, मध्यप्रदेशस्य मुख्यमन्त्री डॉ मोहनयादवः च सहभागी अभवन्।

---------------

Hindusthan Samachar / Dheeraj Maithani