भारत-नॉर्डिकदेशाः आतंकवादे ‘नो कम्प्रोमाइज, नो डबल स्टैंडर्ड’ इत्येतौ अयच्छन् संदेशम् -मोदी
ओस्लो, 19 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे उक्तवान् यत् वैश्विकतनावस्य संघर्षाणां च वर्तमानकाले भारतं नॉर्डिकदेशाश्च नियमाधारिताम् अन्ताराष्ट्रियव्यवस्थां सुदृढां कर्तुं तथा आतंकवादस्य विरुद्धं “नो कम्प्रोमाइज, नो डबल स्टैण्डर्ड”
प्रधानमंत्री नरेन्द्र मोदी ने मंगलवार को नॉर्डिक देशों के नेताओं के साथ संयुक्त प्रेस वक्तव्य में


ओस्लो, 19 मईमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे उक्तवान् यत् वैश्विकतनावस्य संघर्षाणां च वर्तमानकाले भारतं नॉर्डिकदेशाश्च नियमाधारिताम् अन्ताराष्ट्रियव्यवस्थां सुदृढां कर्तुं तथा आतंकवादस्य विरुद्धं “नो कम्प्रोमाइज, नो डबल स्टैण्डर्ड” इति नीतौ एकमताः सन्ति।

प्रधानमन्त्री नॉर्डिकदेशानां नेतृभिः सह संयुक्तप्रेसवक्तव्ये उक्तवान् यत् यूक्रेन-, पश्चिम-एशिया-, अन्यप्रदेशेषु च प्रवर्तमानसंघर्षाणां मध्ये भारतं नॉर्डिकदेशाश्च शत्रुतायाः शीघ्रसमाप्तेः स्थायिशान्तेः प्रयासानां च समर्थनं निरन्तरं करिष्यन्ति। सः अवदत् यत् बहुपक्षीयसंस्थासु सुधारः आवश्यकः अपि अस्ति अत्यन्तावश्यकः च। मोदी उक्तवान् यत् लोकतन्त्रस्य, विधिशासनस्य, बहुपक्षवादस्य च प्रति साझा-प्रतिबद्धता भारतं नॉर्डिकदेशांश्च स्वाभाविकसाझेदारान् करोति। प्रौद्योगिकी-स्थिरताक्षेत्रयोः साझा-प्राथमिकताः उभयपक्षयोः मध्ये सहयोगस्य व्यापकावकाशान् उत्पादयन्ति।

प्रधानमन्त्री उक्तवान् यत् अष्टवर्षपूर्वं भारत-नॉर्डिक-प्रारूपस्य स्थापना कृता आसीत् तथा गतकेषु वर्षेषु सम्बन्धेषु उल्लेखनीयप्रगतिः अभवत्। तेन सूचितं यत् गतदशवर्षेषु भारतस्य नॉर्डिकदेशानां च मध्ये द्विपक्षीयव्यापारः प्रायः चतुर्गुणः वर्धितः, नॉर्डिकदेशेभ्यः भारते निवेशः च प्रायः द्विशतप्रतिशतेन वर्धितः। सः अवदत् यत् नॉर्डिकदेशानां निवेशकोषाः भारतस्य तीव्रार्थिकवृद्धौ महत्त्वपूर्णभागीदाराः भवन्ति। तीव्रतया वर्धमानः व्यापारः निवेशश्च भारतस्य नॉर्डिकदेशानां च अर्थव्यवस्थासु सकारात्मकयोगदानं कृतवन्तौ तथा सहस्रशः नूतननियोजनानि उत्पादितवन्तौ।

मोदी उक्तवान् यत् अक्तूबर् २०२५ मासात् नॉर्वे-, आइसलण्ड-, अन्यैः ईएफटीए-देशैश्च सह व्यापार-आर्थिक-सहकारिता-सहमतेः कार्यान्वयनं कृतम्। एतदतिरिक्तं सद्यःएव भारत-यूरोपीय-संघयोः मध्ये मुक्तव्यापारसम्झौतः अपि अभवत्, यस्मिन् डेनमार्क-, फिनलण्ड-, स्वीडनदेशाः भागीदाराः सन्ति। एते महत्वाकाङ्क्षिणः व्यापारसहमतयो भारत-नॉर्डिक-सम्बन्धेषु नूतनस्य स्वर्णिमयुगस्य आरम्भं करिष्यन्ति।

प्रधानमन्त्री उक्तवान् यत् भारतस्य नॉर्डिकदेशानां च मध्ये रणनीतिक-सहकारि-अन्तर्गतं स्वीडनदेशस्य उन्नतविनिर्माण-रक्षासामर्थ्यं, फिनलण्डदेशस्य दूरसञ्चार-डिजिटल-प्रौद्योगिकी, डेनमार्कदेशस्य साइबरसुरक्षा-हेल्थ-टेक-विशेषज्ञता च भारतस्य प्रतिभया सह संयोज्य विश्वाय विश्वसनीयसमाधानानि विकसितानि भविष्यन्ति। सः अवदत् यत् अनुसन्धानं नवोन्मेषश्च उभयपक्षयोः साझेदार्याः महत्त्वपूर्णः स्तम्भः अस्ति, विश्वविद्यालयानां, प्रयोगशालानां, स्टार्टअप-इकोसिस्टम्-मध्ये सम्बन्धसुदृढीकरणस्य विषये विशेषबलं दास्यते। सहैव आर्कटिक-, ध्रुवीय-अनुसन्धान-, कौशलविकास-, प्रतिभाविनिमयक्षेत्रेषु अपि सहयोगः अग्रे नीयते।

प्रधानमन्त्री उक्तवान् यत् अनेकासु नॉर्डिकभाषासु “सम्बन्ध” इति शब्दस्य अर्थः संयोजनम्, सम्बन्धः, बन्धनं च भवति तथा हिन्दीभाषायामपि अस्य अर्थः तथैव अस्ति। एषा केवलं शब्दसमानता न, अपितु सहकारि-विचाराणां निकटतायाश्च प्रतीकः अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani