भारत-नार्डिकशिखरसम्मेलनं हरितविकासं, प्रौद्योगिकीं निवेशं च वर्धयितुं विहिता सहमतिः
नवदिल्ली, 19 मईमासः (हि.स.)। तृतीये भारत-नॉर्डिक-शिखरसम्मेलने देशैः हरितविकासे, प्रौद्योगिक्यां, रक्षाक्षेत्रे, शिक्षाक्षेत्रे, सामुद्रिकार्थव्यवस्थायां च सहितेषु अनेकक्षेत्रेषु सहयोगवृद्धेः उपरि बलं दत्तम्। सम्मेलने भारत-यूरोपीय-संघ-मुक्तव्यापा
प्रधानमंत्री और नार्डिक देशों के प्रधानमंत्री


नवदिल्ली, 19 मईमासः (हि.स.)।

तृतीये भारत-नॉर्डिक-शिखरसम्मेलने देशैः हरितविकासे, प्रौद्योगिक्यां, रक्षाक्षेत्रे, शिक्षाक्षेत्रे, सामुद्रिकार्थव्यवस्थायां च सहितेषु अनेकक्षेत्रेषु सहयोगवृद्धेः उपरि बलं दत्तम्। सम्मेलने भारत-यूरोपीय-संघ-मुक्तव्यापारसहमतिः तथा भारत-ईएफटीए-व्यापार-आर्थिक-सहकारितासहमतिः इत्येतयोः लाभं स्वीकृत्य व्यापारनिवेशयोः वृद्ध्यर्थं सहमतिर्जाता।

प्रधानमन्त्री नरेन्द्रमोदी अद्य ओस्लोनगरे आयोजिते तृतीये भारत-नॉर्डिक-शिखरसम्मेलने सहभागी अभवत्। अस्मिन् पञ्चानां नॉर्डिकदेशानां प्रतिनिधयः अपि सहभागी अभवन् — डेनमार्कदेशस्य प्रधानमन्त्री मेटेफ्रेडरिक्सन्, स्वीडनदेशस्य प्रधानमन्त्री उल्फक्रिस्टरसन्, नॉर्वेदेशस्य प्रधानमन्त्री योनासगारस्टोरे, फिनलण्डदेशस्य राष्ट्रपतिः अलेक्जेण्डरस्टब तथा आइसलण्डदेशस्य प्रधानमन्त्री क्रिस्ट्रूनफ्रॉस्टाडॉटिर।

विदेशमन्त्रालयस्य प्रवक्ता एक्स-माध्यमे उक्तवान् यत् सम्मेलनस्य उद्देश्यं भारतस्य विशालपरिधेः नॉर्डिक-नवोन्मेषस्य च मध्ये सेतुनिर्माणेन भविष्यस्य सशक्तीकरणम् आसीत्। प्रधानमन्त्री मोदी तृतीयभारत-नॉर्डिक-शिखरसम्मेलनार्थम् ओस्लोनगरे स्वकीयैः नॉर्डिकसमकक्षैः सह सहभागी अभवत्। वैश्विकानाम् अनिश्चिततानां मध्ये भारतस्य नॉर्डिकदेशानां च मध्ये साझेदारी स्थिरतायाः सततविकासस्य च दृढशक्तिरूपेण स्थितवती अस्ति। नेतृभिः एतेषु प्राथमिकताक्षेत्रेषु सहयोगस्य अधिकवर्धनार्थं भारत-नॉर्डिक-सम्बन्धान् “हरितप्रौद्योगिकी-नवोन्मेष-रणनीतिक-सहकारितायाः” स्तरं नेतुं निर्णयः कृतः।

प्रधानमन्त्री एक्स-माध्यमे उक्तवान् यत् भारतेन नॉर्डिकदेशैश्च गतकेषु वर्षेषु असाधारणप्रगतिः साधिता। व्यापारिकसम्बन्धाः सुदृढाः अभवन् तथा निवेशसम्बन्धाः अत्यन्तं गभीराः अभवन्। अद्यतनस्य भारत-नॉर्डिक-शिखरसम्मेलनस्य महत्त्वपूर्णतमः परिणामः अयम् अस्ति यत् वयं स्वकीयसम्बन्धान् हरितप्रौद्योगिकी-नवोन्मेष-रणनीतिक-साझेदारी-स्तरं प्रति वर्धयितुं निर्णयं कृतवन्तः। एषा साझेदारी नवोन्मेषं व्यापकतया प्रतिभया च संयोजयिष्यति, तथा स्थिरता, विश्वसनीयप्रौद्योगिकीः मानवतायाः उत्तमभविष्यस्य प्रति च अस्माकं साझा-प्रतिबद्धतां अग्रे नयिष्यति।

उपवेशनानन्तरं भारतस्य नॉर्डिकप्रदेशानां च मध्ये अष्टसु विषयेषु सहमतिर्जाता। विदेशमन्त्रालयस्य अनुसारं बैठके जलवायुपरिवर्तनस्य निवारणार्थं संयुक्तपहलाः, नवीकरणीयऊर्जा हरितप्रौद्योगिकीषु च प्रोत्साहनस्य विषये विशेषचर्चा अभवत्। आर्कटिकप्रदेशे शोधकार्ये, जलवायु-अध्ययने, पर्यावरणनिगरणे च सहयोगवृद्धेः निर्णयः कृतः।

एतेन सह विज्ञाने, प्रौद्योगिक्यां, अभियान्त्रिक्यां, गणितक्षेत्रेषु (स्टेम) संयुक्त-अनुसन्धानस्य नवोन्मेषस्य च प्रोत्साहनस्य उपरि बलं दत्तम्।

ब्लू-इकोनॉमी-अन्तर्गतं सामुद्रिकसंसाधनानां सततप्रयोगे, नौपरिवहने, मत्स्यपालने, सामुद्रिकप्रौद्योगिक्यां च साझेदारीवृद्धेः विषये उक्तम्। सम्मेलने छात्राणां, शोधकर्तॄणां, कुशलव्यावसायिकानां च आवागमनस्य सुगमीकरणाय तथा प्रतिभाविनिमयस्य प्रोत्साहनाय अपि सहमतिर्जाता।

रक्षाक्षेत्रे भारतस्य नॉर्डिकदेशानां च मध्ये औद्योगिकसहयोगे, संयुक्तविनिर्माणे, रक्षाप्रौद्योगिकी-सहकारितायाः सुदृढीकरणे च अपि बलं दत्तम्।

---------------

Hindusthan Samachar / Dheeraj Maithani