Enter your Email Address to subscribe to our newsletters

- राज्यानां मध्ये परस्परं सहयोगं वर्धनगतलक्ष्यात् प्रतिवर्षं भविष्यति मंत्रणा
भोपालम्, 19 मईमासः (हि.स.) ।मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य मङ्गलवासरे छत्तीसगढ़स्य बस्तर-जिले आयोजितायां मध्य-क्षेत्रीय-परिषदः षड्विंशतितमायां बैठके सहभागं करिष्यति। केन्द्रीयगृह-सहकारितामन्त्री तथा मध्य-क्षेत्रीय-परिषदः अध्यक्षः अमितशाह गोष्ठ्याः अध्यक्षतां करिष्यति। उपवेशनं प्रातः एकादशवादनतः आरभ्य भविष्यति।
जनसम्पर्काधिकारी अशोकमनवानी अवदत् यत् अस्मिन् उपवेशने मध्यप्रदेशेन सह उत्तरप्रदेशः, उत्तराखण्डः तथा छत्तीसगढ़-राज्यम् अपि सहभागं करिष्यन्ति, ये परिषदः सदस्यराज्यानि सन्ति। छत्तीसगढ़-राज्यसर्वकारः अस्याः बैठकायाः आतिथ्यं करोति। मध्य-क्षेत्रीय-परिषदः गोष्ठ्याः मुख्योद्देश्यः केन्द्रस्य राज्येषां च मध्ये तथा राज्येषु परस्परविषयेषु विचारविमर्शं कृत्वा तेषां सौहार्दपूर्णं समाधानं कर्तुम् अस्ति। बैठके मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः, उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः, उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी तथा छत्तीसगढ़स्य मुख्यमन्त्री विष्णुदेवसायः सहभागं करिष्यन्ति।
तेन उक्तं यत् मध्य-क्षेत्रीय-परिषदः उपवेशनं परिषदः सदस्यराज्यानां मुख्यसचिवाः, नीतिआयोगस्य प्रतिनिधयः, अन्तर्राज्यीय-परिषदः सदस्याः तथा अन्ये वरिष्ठाधिकारिणः अपि सहभागिनः भविष्यन्ति। परिषदः पूर्वा उपवेशनं गतवर्षस्य जूनमासे वाराणसी-नगरे अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani