Enter your Email Address to subscribe to our newsletters


भुवनेश्वरम्, 19 मईमासः (हि.स.)। केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः उक्तवान् यत् भारतस्य पूर्वीयराज्यानाम् उर्वराभूमिः, जलस्य उपलब्धता, कृषकाणां परिश्रमः, मृदायाः विविधप्रकाराः तथा जलवायुः वास्तवमेव अद्भुताः सन्ति। यदि सम्यक्दिशि किञ्चित् अधिकाः प्रयत्नाः क्रियेरन्, तर्हि पूर्वीयभारतं देशस्य कृषिविकासस्य वृद्धेः प्रेरकशक्तिः भवितुं शक्नोति।
ओडिशाराज्यस्य राजधानी भुवनेश्वरनगरे मङ्गलवासरे ‘पूर्वाञ्चल-क्षेत्रीय-कृषि-सम्मेलनम्-२०२६’ आयोजितम्, यस्मिन् ओडिशा, बिहार, झारखण्ड, छत्तीसगढ तथा पश्चिमबङ्गाल सहित पूर्वीयभारतस्य पञ्चराज्यानां कृषिविकासस्य कृषककल्याणस्य च व्यापकमार्गचित्रस्य निर्माणविषये चर्चा अभवत्। सम्मेलने प्रदेशस्य मुख्यमन्त्री मोहनचरणमाझी, केन्द्रीयकृषि-कृषककल्याणमन्त्री शिवराजसिंहचौहानः तथा विभिन्नराज्यानां कृषिमन्त्रिणः सहभागिनः अभवन्।
सम्मेलने केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः प्रदेशस्य कृषिविकासस्य कृषकाणां च प्रशंसां कुर्वन् उक्तवान् यत् ओडिशाराज्येन धानक्रयक्षेत्रे अस्मिन् वर्षे उल्लेखनीया उपलब्धिः प्राप्ता। तेन प्राकृतिककृषेः संवर्धनाय बलं दत्तम् तथा कृषकान् स्वस्य न्यूनातिन्यूनं विंशतिप्रतिशतं कृषिभूमौ प्राकृतिककृषिं स्वीकर्तुम् आह्वानं कृतम्। सः उक्तवान् यत् रासायनिक-उर्वरकाणां कीटनाशकानां च अत्यधिकोपयोगेन मृदायाः उर्वरता प्रभाविताभवति। नकली-उर्वरक-कीटनाशक-व्यापारस्य विरुद्धं कठोरकार्यवाह्याः चेतावनीं दत्त्वा सः अवदत् यत् कृषकसुरक्षार्थं केन्द्रसरकारः नवीनं ‘पेस्टिसाइड्-ऐक्ट्’ आनयितुं सज्जा अस्ति।
मुख्यमन्त्री मोहनचरणमाझी स्वसम्बोधने मृदासंरक्षणं जैविककृषिं च भविष्यस्य आवश्यकता इति वर्णयन् उक्तवान् यत् अत्यधिकरासायनिक-उर्वरकोपयोगेन मृदा विषाक्ता भवति। तेन सूचना प्रदत्ता यत् श्रीजगन्नाथमन्दिरस्य महाप्रसादे अधुना ओडिशाराज्यस्य जैविक-तण्डुलस्य उपयोगः क्रियते, यत् राज्यस्य गौरवस्य विषयः अस्ति।
मुख्यमन्त्री अवदत् यत् राज्यसरकारः प्रत्येकस्मिन् खण्डस्तरे पारम्परिक-विलुप्यमान-खाद्यसस्यानां पुनर्जीवनार्थं विशेषपहलां करोति। तेन प्रधानमन्त्रिणो नरेन्द्रमोदिनः आह्वानं पुनरुक्त्वा कृषकान् रासायनिक-उर्वरकस्य उपयोगं न्यूनीकर्तुम् अपीलं कृतम्। सः उक्तवान् यत् ‘समृद्ध-कृषक-योजना’ अन्तर्गतं कृषकेभ्यः प्रति-क्विण्टल् ३१०० रूप्यकाणां दरেণ धानक्रयः क्रियते, येन गत-खरीफ-ऋतौ प्रायः १९ लक्ष-कृषकाः लाभान्विताः। एतदतिरिक्तं ‘सीएम-किसान-योजना’ माध्यमेन ५१ लक्षाधिक-कृषकेभ्यः प्रतिवर्षं ४००० रूप्यकाणां सहायता प्रदीयते, या पीएम-किसान-योजनया सह संयुक्ता भूत्वा कृषकेभ्यः वार्षिकरूपेण १०,००० रूप्यकाणि यावत् सहायता प्रददाति।
मुख्यमन्त्री माझी उक्तवान् यत् राज्यसरकारः कृष्यवसंरचनां सुदृढां कर्तुं सर्वेषु ५८ उपखण्डेषु कोल्ड्-स्टोरेज्-स्थापनाय योजनायां कार्यं करोति। ‘मुख्यमन्त्री-कृषि-उद्योग-योजना’ अन्तर्गतं कृषिक्षेत्रे निवेशस्य संवर्धनाय एककोटि-रूप्यकाणि यावत् अनुदानं प्रदीयते। राज्ये १८०० अधिकाः कृषक-उत्पादक-सङ्गठनाः सक्रियाः सन्ति, यैः गतद्विवर्षयोः १२६ कोटि-रूप्यकाणां व्यापारः कृतः। तेन अवगतं कृतं यत् कोरापुट् तथा कालाहाण्डी सहित षट्सु जनपदेषु एकलक्ष-एकर-भूमौ कॉफी-वाटिकानां विकासः क्रियते। कोरापुट्-कॉफी इत्यस्य वैश्विकपहिचानस्य उल्लेखं कुर्वन् तेन तस्य उत्तम-ब्राण्डिङ्ग्-विपणनयोः बलं दत्तम्।
मोहनचरणमाझी उक्तवान् यत् पूर्वीयभारते कृष्युत्पादकतावृद्धेः अपाराः सम्भावनाः सन्ति तथा एषः सम्मेलनः पञ्चराज्यानां मध्ये श्रेष्ठ-कृषिपद्धतीनां आदानप्रदानस्य महत्त्वपूर्णं मञ्चं भविष्यति। तेन विश्वासः व्यक्तः यत् सम्मेलनात् निष्पन्नं मार्गचित्रं प्रधानमन्त्रिणः ‘पूर्वोदय-मिशननिमित्तां नूतनां दिशां दास्यति तथा पूर्वीयभारतं कृषिक्षेत्रे आत्मनिर्भरं कर्तुं मीलस्तम्भः सिद्धः भविष्यति।
सम्मेलने उपमुख्यमन्त्री एवं कृषिमन्त्री कनकवर्धनसिंहदेवः, बिहारस्य कृषिमन्त्री विजयकुमारसिन्हा, छत्तीसगढस्य कृषिमन्त्री रामविचारनेतामः, केन्द्रीयकृषिराज्यमन्त्री रामनाथठाकुरः, पश्चिमबङ्गालस्य खाद्य-आपूर्ति-उपभोक्तृकल्याणमन्त्री अशोककीर्तनिया, केन्द्रीयकृषि-कृषककल्याणविभागस्य सचिवः आतीशचन्द्रः तथा केन्द्रीयकृषिअनुसन्धान-शिक्षाविभागस्य सचिवः मङ्गीलालजाटः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani