Enter your Email Address to subscribe to our newsletters

रायपुरम् 19 मईमासः (हि.स.)।
छत्तीसगढ़स्य वित्तमन्त्री तथा रायगढ़-विधायकः ओ.पी. चौधरी अद्य मङ्गलवासरे रायगढ़-नगरे आयोजितयोः द्वयोः महत्त्वपूर्णयोः विकासकार्ययोः लोकार्पण-भूमिपूजन-कार्यक्रमयोः सहभागं करिष्यति।
निर्धारितकार्यक्रमानुसारं वित्तमन्त्री श्रीचौधरी सायं षट्वादनार्धे वार्ड-सङ्ख्या २८ मध्ये नवनिर्मितस्य सामुदायिक-भवनस्य लोकार्पणं करिष्यति। ततः परं सः सायं सप्तवादनार्धे वार्ड-सङ्ख्या २१ मध्ये बाल-उद्यान-जीर्णोद्धार-कार्यस्य शिलान्यासं करिष्यति।
एतेषां विकासकार्याणां माध्यमेन स्थानीयनागरिकेभ्यः उत्तमाः सामुदायिकसुविधाः उपलब्धाः भविष्यन्ति तथा च बालकेभ्यः आधुनिकं आकर्षकं च मनोरञ्जनस्थलं विकसितं भविष्यति। वित्तमन्त्री ओ.पी. चौधरी उक्तवान् यत् रायगढ़-नगरस्य प्रत्येकस्मिन् मतदानकेंद्रे आधारभूतसुविधानां विस्ताराय सौन्दर्यीकरणाय च निरन्तरं कार्याणि क्रियमाणानि सन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani