Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 19 मईमासः (हि.स)।
कॉन्फेडरेशन-ऑफ-ऑल-इण्डिया-ट्रेडर्स् (कैट्) इत्यस्य राष्ट्रियव्यापारीनेतृसम्मेलनम् २०२६ इत्यस्य द्वितीयदिने देशस्य विविधप्रदेशेभ्यः आगताः व्यापारिकसङ्गठनानां प्रतिनिधयः प्रधानमन्त्री नरेन्द्रमोदिना प्रदत्तान् “सप्त रणनीतिकपदानि” भारतस्य सुरक्षायै, आत्मनिर्भरतायै, आर्थिकसुदृढतायै च दूरदर्शिनः भविष्याभिमुखाः च उपक्रमाः इति अभिवर्णितवन्तः।
भारतमण्डपम् इत्यत्र आयोजितं द्विदिवसीयं सम्मेलनम् सम्बोधयन्ती पूर्वकेन्द्रीयमन्त्री भाजपानेत्री स्मृतिईरानी मंगलवासरे उक्तवती यत् प्रधानमन्त्रिणो मोदिनः सप्तपदानि केवलं राष्ट्रियसुरक्षायाः मार्गचित्रं न, अपितु भारतं आर्थिक-, सामाजिक-, सांस्कृतिकरूपेण च सशक्तं कर्तुं व्यापकदृष्टिकोणः अस्ति। विकसितभारतस्य निर्माणे महिलासशक्तिकरणस्य भूमिका अत्यन्तमहत्त्वपूर्णा अस्ति।
इरानी उक्तवती यत् व्यापारजगता महिलानां नेतृत्वस्य, उद्यमितायाः, आर्थिकभागीदारीयाः च अधिकं प्रोत्साहनं दातव्यम्।
कैट् इत्यस्य राष्ट्रियमहामन्त्री च चान्दनीचतुष्पथ-सांसदः प्रवीणखण्डेलवाल उक्तवान् यत् अद्यतनः व्यापारी केवलं व्यापारपर्यन्तं सीमितः नास्ति, अपितु राष्ट्रनिर्माणस्य सक्रियभागीदारः अभवत्। सः अवदत् यत् प्रधानमन्त्रिणो नरेन्द्रमोदिनः सप्तसंकल्पाः व्यापारजगतः आत्मनिर्भरभारतस्य, स्वदेश्यार्थव्यवस्थायाः, राष्ट्रियहितानां प्रति च अधिकजागरूकतां प्रतिबद्धतां च उत्पादयिष्यन्ति।
व्यापारिकसमुदायः सर्वासु परिस्थितिषु राष्ट्रहितं सर्वोपरि स्थापयन् सर्वकारेण सह दृढतया स्थितः भविष्यति। खण्डेलवाल अवदत् यत् सम्मेलने सर्वसम्मत्या एकः प्रस्तावः पारितः, यस्मिन् प्रधानमन्त्री मोदीस्य दृष्टेः प्रशंसा कृता तथा देशस्य व्यापारिकसमुदाये एतानि सप्तसंकल्पानि व्यापकतया कार्यान्वयितुं संकल्पः कृतः।
व्यापारिनेतारः उक्तवन्तः यत् “इण्डिया-फर्स्ट्” इति मन्त्रः अद्य देशस्य प्रत्येकं व्यापारिणः अपि संकल्पः अभवत्। देशस्य सप्तविंशतिराज्येभ्यः आगताः प्रमुखव्यापारिनेतारः अस्मिन् सम्मेलने भागं गृह्णन्ति। सम्मेलनस्य अध्यक्षता कैट् इत्यस्य राष्ट्रियाध्यक्षः बीसीभरतिया अकरोत्।
अस्मिन् सम्मेलने पारिते प्रस्तावे उक्तं यत् वर्तमानवैश्विकपरिस्थितीनां, भू-राजनीतिकतनावस्य, आर्थिकपरिस्थितयो, राष्ट्रियसुरक्षासम्बद्धपरिवर्तितपरिदृश्यस्य च परिप्रेक्ष्ये प्रधानमन्त्रीणा घोषितानि सप्तपदानि अत्यन्तं समयोचितानि आवश्यकानि च सन्ति।
व्यापारिनेतारः उक्तवन्तः यत् एतेषां पदानां उद्देश्यं भारतं आर्थिकरूपेण अधिकम् आत्मनिर्भरं, रणनीतिकरूपेण सुदृढं, आपूर्तिशृङ्खलास्तरे समर्थं, कस्यापि वैश्विकसंकटस्य आक्रमणस्य वा परिस्थितौ पूर्णतया सज्जं च कर्तुम् अस्ति।
प्रस्तावे उक्तं यत् प्रधानमन्त्री मोदी व्यापारस्य, उद्योगस्य, उपभोक्तॄणां, राष्ट्रहितस्य च मध्ये सन्तुलनं स्थापयन् देशाय दीर्घकालिकाम् आर्थिकसुरक्षां प्रदातुं एतां ऐतिहासिकां प्रयत्नं कृतवान्।
उल्लेखनीयं यत् ह्यः केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयल सम्मेलनम् उपास्थितवान् तथा द्वादशतः पञ्चदश-अगस्तपर्यन्तं भारतमण्डपम् इत्यत्र आयोजितस्य “भारतीयव्यापारमहोत्सवः २०२६” इत्यस्य वेब-पटलस्य शुभारम्भः कृतः। एषः महोत्सवः आईटीपीओ तथा कैट् इत्येताभ्यां संयुक्तरूपेण आयोजितः भवति।
---------------
Hindusthan Samachar / Dheeraj Maithani