बालकेभ्यः श्रेष्ठ-शिक्षां गुणवत्तायुक्तं मध्याह्न-भोजनं च प्रदातुं प्राथमिकता - अभिनवः जे.जैनः
कानपुरनगरम्, १९ मे-मासः (हि.स.)। बालकेभ्यः श्रेष्ठ-शिक्षा, स्वच्छ-वातावरणं गुणवत्तायुक्तं मध्याह्न-भोजनं च प्रदातुं प्राथमिकता अस्ति। विद्यालयेषु अध्ययनेन सह बालकानां मूल-सुविधासु विशेष-ध्यानं दीयते। एतत् मुख्य-विकास-अधिकारी अभिनवः जे.जैनः मङ्गलवास
निरीक्षण के दौरान बच्चों संग भोजन करते सीडीओ


कानपुरनगरम्, १९ मे-मासः (हि.स.)। बालकेभ्यः श्रेष्ठ-शिक्षा, स्वच्छ-वातावरणं गुणवत्तायुक्तं मध्याह्न-भोजनं च प्रदातुं प्राथमिकता अस्ति। विद्यालयेषु अध्ययनेन सह बालकानां मूल-सुविधासु विशेष-ध्यानं दीयते। एतत् मुख्य-विकास-अधिकारी अभिनवः जे.जैनः मङ्गलवासरे निपुण-भारत-अभियानस्य अन्तर्गतं विद्यालय-भ्रमणस्य समये उक्तवान्।

मुख्य-विकास-अधिकारिणा उच्च-प्राथमिक-विद्यालयः लोधवा-खेड़ा, प्राथमिक-विद्यालयः कटरी-शङ्करपुरः तथा उच्च-प्राथमिक-विद्यालयः शङ्करपुरः इत्येषां भ्रमणं कृतम्। अस्मिन् अवसरे सः कक्षासु गत्वा बालकानां अध्ययनं परीक्षितवान्। बालकैः पुस्तक-पाठनं कारितम् तथा कृष्णफलकस्य उपरि प्रश्नानां समाधानम् अपि कारितम्। भाषा-गणितयोः क्षमतायाः परीक्षणम् अपि कृतम्।उच्च-प्राथमिक-विद्यालये शङ्करपुरे सीडीओ बालकैः सह उपविश्य मध्याह्न-भोजनम् अभक्षयत्। तेन भोजनस्य गुणवत्ता, स्वच्छता तथा पोषण-स्तरस्य परीक्षणं कृतम् तथा बालकेभ्यः भोजनस्य विद्यालय-व्यवस्थायाश्च विषये सूचना गृहीता। अस्मिन् समये छात्र-उपस्थिति-पञ्जिका, शिक्षकाणाम् उपस्थितिः तथा बालकानां पुस्तिकानां निरीक्षणं कृतम्। शिक्षकान् निर्देशाः दत्ताः यत् प्रत्येकस्य बालकस्य प्रगतिः नियमितरूपेण निरीक्ष्यताम् तथा पुस्तिकानां परीक्षणं समये एव सुनिश्चितं क्रियताम्।

प्राथमिक-विद्यालये कटरी-शङ्करपुरे विद्यालय-परिसरस्य, कक्षाणां तथा शौचालयानां स्वच्छता-व्यवस्थायाः समीक्षा कृता। तेन सह स्मार्ट-कक्षा, प्रोजेक्टर तथा अन्य-डिजिटल-माध्यमानां उपयोगस्य अपि निरीक्षणं कृतम्। अस्मिन् अवसरे बीएसए सुरजीत-कुमार-सिंहः अन्ये अधिकारीणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan