Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 मईमासः (हि.स.)।भारतीयरेलवेमन्त्रालयेन हावड़ा-दिल्ली-रेलमार्गे क्षमता-विस्तारं परिचालन-दक्षतावृद्धिं च उद्दिश्य ५४ किलोमीटर-दीर्घा किउल-झाझा-तृतीयरेलरेखापरियोजना ९६२ कोटिरूप्यकव्ययेन अनुमोदिता। एषा भारतीयरेलवे-अधीनस्य अत्यन्तव्यस्त-यातायातजालस्य महत्त्वपूर्णः भागः अस्ति तथा अनेन पूर्वोत्तरीयभारते यात्रिमालपरिवहनयोः सुदृढीकरणस्य अपेक्षा क्रियते।
रेलमन्त्री अश्विनीवैष्णवः उक्तवान् यत् किउल-झाझा-तृतीयरेलरेखापरियोजना हावड़ा-दिल्ली-कॉरिडोरस्य क्षमतायां उल्लेखनीयं वर्धनं करिष्यति तथा रेलयानानां समयपालनक्षमतायाः परिचालन-नमनीयस्य च सुधारं करिष्यति। अतिरिक्तरेलरेखया यात्रियानानां मालवाहनयानानां च निर्बाधगमनागमनं सुनिश्चितं भविष्यति तथा क्षेत्रीयौद्योगिकविकासः व्यापारसम्पर्कश्च प्रोत्साहनं प्राप्स्यतः।
रेलमन्त्रालयस्य अनुसारं वर्तमानकाले किउल-झाझा-मध्यवर्तिनी विद्यमाना द्विलौहपथरेखा स्वस्य आदर्शक्षमतातः अधिकदबावेन सञ्चाल्यते। आगामिवर्षेषु अस्मिन् मार्गे यातायातस्य वृद्धेः सम्भावनां दृष्ट्वा अतिरिक्त-अवसंरचनायाः आवश्यकता अनुभूयमाना आसीत्। प्रस्ताविता तृतीयरेलरेखापरियोजना रेखाक्षमतावृद्धिं करिष्यति, भीडाभारं न्यूनं करिष्यति तथा यात्रिमालयानानां गमनागमनं अधिकं सुगमं भविष्यति।
अनेन पटनाकोलकातयोः मध्ये सम्पर्कः श्रेष्ठतरः भविष्यति, तेन सह उत्तरपूर्वभारतीयानां प्रमुखौद्योगिक-लॉजिस्टिककेन्द्राणां सम्बद्धा मालवाहनव्यवस्था अपि सुदृढा भविष्यति। अयं रेलखण्डः कोलकाता-हल्दियाबन्दरगाहस्थलयोः रक्सौल-नेपालदेशेन सह संयोजने महत्त्वपूर्णां भूमिकां निर्वहति। अतिरिक्तरूपेण बरह-एसटीपीपी, जवाहर-एसटीपीपी, बीरगञ्ज-आईसीडी इत्यादीनां प्रमुखौद्योगिकप्रतिष्ठानानां सम्बद्धस्य गुरुमाल-यातायातस्य सञ्चालनम् अपि अनेन मार्गेण भवति।
रेलविभागस्य अनुसारम् अस्मिन् रणनीतिक-कॉरिडोर्-मार्गे वर्धमानां यातायातमाङ्गल्यां दृष्ट्वा एषा परियोजना दीर्घकालिकाधारभूतसंरचनासमर्थनं प्रदास्यति। अतिरिक्तवहनक्षमता श्रेष्ठतरसम्पर्कश्च लॉजिस्टिक्स-सञ्चालनं अधिकदक्षं करिष्यतः, संमर्दत्वं न्यूनं करिष्यतः तथा पूर्वोत्तरीयभारतीयानां प्रमुखार्थिककेन्द्राणां मध्ये रेलपरिवहनम् अधिकविश्वसनीयं भविष्यति।
-----------
Hindusthan Samachar / Dheeraj Maithani