Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 मईमासः (हि.स.)।भारतीयरेलवेमन्त्रालयेन दक्षिणरेलवे-अधीनस्य अरक्कोनम्-चेंगलपट्टूद्वितीयरेलमार्गपरियोजना (६८ किलोमीटर) ९९३ कोटिरूप्यकव्ययेन अनुमोदिता। अस्य उद्देश्यं चेन्नई-उपनगरीयरैलजालस्य भीडाभारस्य न्यूनीकरणम्, यात्रिसुविधानां सुधारः, मालपरिवहनस्य सुदृढीकरणं च अस्ति। रेलमन्त्री अश्विनीवैष्णव उक्तवान् यत् एषा परियोजना चेन्नईनगरस्य व्यस्ते उपनगरीयरैलजाले भीडाभारस्य न्यूनीकरणे, रेलयानानां समयपालनक्षमतावृद्धौ, परिचालनदक्षतासुधारे च महत्त्वपूर्णां भूमिकां निर्वहिष्यति। अनेन यात्रिभ्यः सह मालवहनव्यवस्था अपि सुदृढा भविष्यति तथा सिमेण्ट, ऑटोमोबाइल, धान्य, लौह, इस्पातादीनां प्रमुखवस्तूनां परिवहने लाभः भविष्यति।
एषः रेलमार्गः चेन्नईसमुद्रतटम्, ताम्बरम्, चेंगलपट्टू, अरक्कोनम् च संयोजयन्तः महत्त्वपूर्णस्य चेन्नई-उपनगरीयसर्कुलररेलजालस्य भागः अस्ति। वर्तमानकाले अस्य एकलरेलमार्गस्य क्षमता अत्यधिकरूपेण उपयुज्यते तथा आगामिवर्षेषु यातायातवृद्धेः सम्भावनां दृष्ट्वा अतिरिक्तरेलअवसंरचनायाः आवश्यकता अनुभूयमाना आसीत्।
रेलमन्त्रालयस्य अनुसारं द्वितीयरेलमार्गनिर्माणकार्यस्य पूर्णतायाः अनन्तरं रेलयानानां स्थगनकालः न्यूनः भविष्यति, समयपालनं श्रेष्ठतरं भविष्यति तथा उपनगरीयरैलसेवानां आवृत्तिः वर्धयितुं शक्यते। अयं मार्गः महिन्द्रावर्ल्डसिटी, श्रीपेरम्बदूर, ओरगडम्, इरुङ्गट्टुकोट्टै इत्यादीन् प्रमुखान् औद्योगिक-आर्थिककेन्द्रान् संयोजयति। एतेषाम् अतिरिक्तम् ऑटोमोबाइल्, सिमेण्ट्, विनिर्माणोद्योगानां कृते अपि अयं रेलमार्गः अत्यन्तं महत्त्वपूर्णः मन्यते।
काञ्चीपुरस्य समीपे प्रस्ताविता परन्दूरविमानस्थानकपरियोजना अपि अस्य रेलमार्गस्य समीपे स्थितास्ति, येन अस्य रणनीतिकमहत्त्वम् अधिकं वर्धितम्। रेलविभागस्य अनुसारम् एतया परियोजनया उपनगरीयमालवहनसम्पर्कः श्रेष्ठतरः भविष्यति, क्षेत्रीयौद्योगिकविकासः प्रोत्साहनं प्राप्स्यति तथा यात्रिभ्यः शीघ्राः सुरक्षिताः अधिकविश्वसनीयाश्च रेलसेवाः उपलब्धाः भविष्यन्ति।
------------
Hindusthan Samachar / Dheeraj Maithani