Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 19 मईमासः (हि.स.)।
प्रधानमन्त्रिणः नरेन्द्रमोदिनो नार्वेदेशयात्रायाः मध्ये विज्ञानस्य नवाचारस्य च क्षेत्रे भारतनार्वेदेशयोः मध्ये अनेकाः द्विपक्षीयसहमतयः सम्पन्नाः। वैज्ञानिकऔद्योगिकअनुसन्धानविभागस्य (डीएसआईआर) अधीनस्थया वैज्ञानिकऔद्योगिकअनुसन्धानपरिषदा (सीएसआईआर) विज्ञानप्रौद्योगिकीनवाचारसततविकासक्षेत्रेषु सहयोगं सुदृढीकर्तुं सोमवासरे ओस्लोनगरे नार्वेदेशस्य प्रमुखअनुसन्धानशैक्षणिकऔद्योगिकसंस्थाभिः सह अनेकानां महत्त्वपूर्णसमझौत्यानां हस्ताक्षराणि कृतानि।
अस्मिन् अवसरे सीएसआईआरस्य महानिदेशकेन डीएसआईआरस्य सचिवेन च डॉ. एन. कलाइसेल्वी इत्यस्य नेतृत्वे डीएसआईआर-सीएसआईआरस्य पक्षतः नार्वेसहयोगिसंस्थानां वरिष्ठप्रतिनिधिभिः सह समझौत्यानि हस्ताक्षरितानि। एतेषां समझौतानां उद्देश्यं अनुसन्धाननवाचारप्रौद्योगिकीविकासक्षेत्रेषु भारतनार्वेसम्बन्धानां विस्तारं कर्तुं तथा उभयदेशयोः संस्थागतसाझेदारीं, स्टार्टअप्-उद्योगसहभागितां, शैक्षणिकसहयोगं सततविकाससम्बद्धपहलानां च प्रोत्साहनं दातुम् अस्ति।
सीएसआईआर तथा नार्वेदेशस्य अनुसन्धानपरिषदः (आरसीएन) मध्ये सम्पन्नस्य समझौतास्मरणपत्रस्य उद्देश्यं अनुसन्धानप्रौद्योगिकीविकासनवाचारक्षमताविकासक्षेत्रेषु सहयोगं प्रवर्धयितुम् अस्ति। अस्मिन् समझौते जलवायुः, स्वच्छऊर्जा, महासागराः, स्वास्थ्यं च इत्यादीनि वैश्विकचुनौतयः सततविकासलक्ष्याणि च सम्बद्धेषु क्षेत्रेषु संयुक्तकार्यशालाः, सहयोगात्मकअनुसन्धानविकासपरियोजनाः, वैज्ञानिकानां शोधकर्तॄणां च आदानप्रदानयात्राः, विशिष्टकार्यक्रमाणां कार्यान्वयनव्यवस्था तथा समयसमये तेषां समीक्षा कर्तुं तन्त्रनिर्माणस्य परिकल्पना कृता अस्ति।
अयं समझौतिः जैवाधारितप्रक्रियासामग्रीषु, नवाचारकेन्द्रेषु, सामुद्रिकऊर्जायाम् (यस्मिन् अपतटीयपवनः हाइब्रिडप्रणाल्यः च अन्तर्भवन्ति), कार्बनग्रहणभण्डारणोपयोगेषु तथा अपशिष्टस्य उपयोगयोग्यसामग्रीषु परिवर्तनक्षेत्रेषु संयुक्तरूपेण अनुसन्धाननवाचारकार्यक्रमाणां माध्यमेन अपशिष्टोत्पत्तेः निवारणं दीर्घकालिकव्यवस्थायाः परिवर्तनं च केन्द्रितम् अस्ति। अस्याः परियोजनायाः कृते सीएसआईआरस्य पक्षतः प्रायः त्रिचत्वारिंशदधिकत्रिशतलक्षरूप्यकाणां वित्तीयसहयोगः प्रदीयते। अस्मिन् सहयोगे संयुक्तअनुसन्धानविकासपरियोजनाः, भूभौतिकीयसर्वेक्षणयोजना, दत्तांशविश्लेषणम् आदर्शरचनां च, तकनीकीपरामर्शसहायता तथा वैज्ञानिककार्यक्रमप्रशिक्षणकार्यक्रमयोः आयोजनं च अन्तर्भवति।
एताः सहमतयः विज्ञानप्रौद्योगिकीनवाचारक्षेत्रे भारतनार्वेसहयोगस्य महत्त्वपूर्णः मीलस्तम्भः सन्ति तथा एभिः उभयदेशयोः मध्ये सहयोगेन अनुसन्धानं, नवाचाराधारितः सततविकासः दीर्घकालिकसंस्थागतसहभागिता च अधिका सुदृढा भविष्यतीति अपेक्षा अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani