केन्द्रीय मंत्री शिवराज सिंहः पुर्यां महाप्रभोश्श्री जगन्नाथस्य अकरोत् दर्शनम्
भुवनेश्वरम्, 19 मईमासः (हि.स.)।पूर्वीयक्षेत्रीयकृषिसम्मेलने सहभागित्वाय ओडिशाराज्यम् आगतः केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहान मङ्गलवासरे पुरीनगरे भगवान् श्रीजगन्नाथस्य दर्शनं कृतवान्। तेन सह तस्य भार्या अपि आसीत्। महाप्रभोः दर्शनानन्तरं तेन उक
शिवराज सिंह चौहान ने पुरी में महाप्रभु श्री जगन्नाथ जी के दर्शन किए


भुवनेश्वरम्, 19 मईमासः (हि.स.)।पूर्वीयक्षेत्रीयकृषिसम्मेलने सहभागित्वाय ओडिशाराज्यम् आगतः केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहान मङ्गलवासरे पुरीनगरे भगवान् श्रीजगन्नाथस्य दर्शनं कृतवान्। तेन सह तस्य भार्या अपि आसीत्।

महाप्रभोः दर्शनानन्तरं तेन उक्तं यत् महाप्रभोः जगन्नाथस्य कृपा सर्वेषु निरन्तरं वर्षतु, प्रत्येकगृहाङ्गणं धनधान्येन पूर्णं भवतु तथा सर्वेषां जीवने अपरिमितं सुखं समृद्धिः आनन्दश्च भवतु, एषैव मम प्रार्थना अस्ति।

तेन उक्तं यत् मया सर्वेषां जनानां सुखसमृद्धिस्वास्थ्यकल्याणानां कामना कृता। तेन सह विश्वे प्रवर्तमानानां संघर्षाणां समाप्तये अपि प्रार्थना कृता। तेन सूचितं यत् ओडिशा, छत्तीसगढं, बिहारः, झारखण्डः, पश्चिमबङ्ग इत्येतेषां राज्याणां समावेशेन एकः क्षेत्रीयकृषिसम्मेलनः आयोज्यते, यस्मिन् खाद्यसुरक्षा, कृषकाणां आयः, जनकल्याणकारीयोजनानां प्रभावीक्रियान्वयनं च विषये चर्चा भविष्यति।

अतिरिक्तरूपेण दालवर्गीयानां तिलहनानां च उत्पादनवृद्धये तथा एकीकृतकृषिप्रणाल्याः माध्यमेन लघुकृषकाणां कृषिं अधिकलाभकारिणींकर्तुं विषये अपि विचारविमर्शः भविष्यति।

----------------